________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः चिकित्सितस्थानम् ।
३३२५ संस्पृश्य माण्यनिजस्तु मूट्टि विश्वकपथस्थः क्षवयं करोति । क्रुद्धः स संशोष्य कफन्तु नासा-शृङ्गाटकघ्राणविशोषणञ्च ॥ उच्छासमारंच कफः सवातो रुन्ध्यात् प्रतीनाहमुदाहरेत् तम् । यो मस्तुलुङ्गाद घनपीतपक्कः कफः स्रवेदेष परिस्रवस्तु। वैवर्ण्यदौर्गन्धामुपेक्षया तु स्यात् पूतिनस्यं श्वयथुमश्च ॥.. सादशोफांश्च वृद्धाः कुर्वन्ति पीनसाः॥” इति। प्रतिश्यायपीनसावेकपय्यायो। क्षवथुप्रभृतयो रोगा नासारोगाः स्वतन्त्राश्च वृद्धप्रतिश्यायजाश्च भवन्ति। सुश्रुते शोणितजप्रतिश्यायः पञ्चम उक्तः। “रक्तजे तु प्रतिश्याये रक्तस्रावः प्रवर्त्तते । ताम्राक्षश्च भवेज्जन्तुरुरोघातप्रपीड़ितः॥” इति। न स तन्त्रेऽस्मिन्नुक्तः, पित्तप्रतिश्याये रक्तयोगे रक्तस्राववचनात् तत्रावरोधः कृतः, ऋते हि दोषान्न रक्तं व्याधि. करणे प्रभवतीत्यभिप्रायः। क्षवथुप्रभृतीनां क्रमेण लक्षणान्याह-संस्पृश्येत्यादि। मृद्धि विश्वकपथस्थोऽनिलो नासास्थमर्माणि संस्पृश्य क्षवयं करोति । सुश्रुते तु-"घ्राणाश्रिते मर्मणि संप्रदुष्टे यस्यानिलो नासिकया निरेति। कफानुयातो बहुशःसशब्दस्तं रोगमाहुःक्षवथ विधिज्ञाः। तीक्ष्णोपयोगादतिजिघ्रतो वा भावान् कटूनर्क निरीक्षणाद वा। सूत्रादिभिर्वा तरुणास्थिमर्मण्युद्घाटितेऽन्यः क्षवथुनिरेति” ॥ इति । नासाशोषमाह । क्रुद्धः स वायुः कर्फ संशोष्य नासाशृङ्गाटके नासापुटके घ्राणे च विशोषणच करोति । सुश्रुते च-"घ्राणाश्रिते श्लेष्मणि मारुतेन पित्तेन गादं परिशोषिते । समुच्छसित्यूद्ध मधश्च कृच्छाद यस्तस्य नासापरिशोष उक्तः॥” इति । नासापतिनाहमाह-उच्छासेत्यादि। यस्य सवातः कफ उच्छासमार्ग रुन्ध्यात् तस्य तं प्रतिनाहमुदाहरेत् । मुश्रते च"कफातो वायुरुदानसंज्ञो यदा स्वमार्ग विगुणः स्थितः स्यात् । घ्राणं कृणोतीव तदा स रोगो नासाप्रतीनाह इति प्रदिष्टः॥” परिस्रवमाह-य इत्यादि। मस्तुलुङ्गाघनश्च पीतश्च पकश्च यः कफः सवेत् स एष नासापरिस्रवः । सुश्रुते थोक्तः-"अजस्रमच्छं सलिलप्रकाशं यस्याविवर्ण स्रवतीह नासा। रात्री विशेषेण च तं विकारं नासापरित्रावमिति व्यवस्येदिति” द्विधैव परिस्रवो घनकफश्च जलवच्चेति न विरोधः। घ्राणपूतिखमाहववर्ण्य मित्यादि। प्रतिश्यायस्योपेक्षया वैवर्ण्यदोर्गन्धं नासायां स्यात् चक्रपाणिः-रोधाभिघातेत्यादिना इछमतिझ्यायादीनां क्रमेण लक्षणान्याह-क्रुद्ध इत्यादौ
४१७
For Private and Personal Use Only