________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३२४
चरक संहिता |
[ तिमम्यचिकित्सितम्
सर्वोऽतिवृद्धोऽहितभोजनात् तु दुष्टप्रतिश्याय उपेक्षितः स्यात् ॥ ततश्च रोगाः चवथुश्च नासा- शोषः प्रतीनाहपरिस्रवौ च । घ्राणस्य पूतित्वमपीनसश्च सपाकशोथोऽर्बुदपूयरक्तः ॥ अरुषि शीर्षश्रवणाक्षिरोगाः खालित्य हय्यज्र्जुन लोमभावाः । तृट्श्वासकासज्वररक्तपित्त- वैवर्ण्यशोषाश्च ततो भवन्ति ॥ ६३ ॥ रोधाभिघातस्त्रवशोषपाकैर्घाणं युतं यस्य न वेत्ति गन्धम् । दुर्गन्धि चास्यं बहुशः प्रकोपि- दुष्टप्रतिश्यायमुदाहरेत् तम् ॥
T
-
गङ्गाधरः सव्र्व्व इत्यादि । सर्व्व एव प्रतिश्यायः पुनरहितभोजनादतिवृद्धश्चेदुपेक्ष्यते तदा दुष्टमतिश्यायः स्यात् । ततश्चेत्यादि । ततो दुष्टप्रतिश्यायाद्रोगा इमे भवन्ति क्षवथुश्चेत्यादयः । सुश्रुते चोक्तम् । “अपीनसः पूतिनस्यं नासापाकस्तथैव च । तथा शोणितपित्तश्च पूयशोणितमेव च । क्षवथुभ्रं शशुदीप्तो नासानाहः परिस्रवः । नासाशोषेण सहिता दशैकश्चेरिता गदाः । चत्वार्य्यसि चत्वारः शोफाः सप्तान्वु दानि च । प्रतिश्यायाश्च ये पश्च वक्ष्यन्ते सचिकित्सिताः । एकत्रिंशन्मितास्ते तु नासारोगाः प्रकीर्त्तिताः ॥” इति ॥ ६३ ॥
1
गङ्गाधरः- तत्र दुष्टमतिश्यायलक्षणमाह - रोधेत्यादि । घ्राणं नासिका रोधादिभिर्युक्तं यस्य नरस्य गन्धं न वेत्ति | आस्यञ्च दुर्गन्धितस्य तं बहुशः प्रकोपिणं दुष्टप्रतिश्यायमुदाहरेत् । सुश्रुते चोक्तम् । “दुर्गन्धोच्छ्रासवदनस्तथा गन्धं न वेत्ति च । मूर्च्छन्ति चात्र क्रिमयः श्वेताः कृष्णा स्तथाणवः । क्रिमिमूर्द्धविकारेण समानश्चास्य लक्षणम् । प्रक्लिद्यति पुनर्नासा पुनश्च परिशुष्यति। मुहुरानह्यते चापि मुहुर्विक्रियते तथा । निश्वासोच्छ्रासदोर्गन्ध्यं तथा गन्धान् न वेत्ति च । एवं दुष्टप्रतिश्यायं जानीयात् कृच्छ्रसाधनम् । सर्व्व एव प्रतिश्याया नरस्याप्रतिकारिणः । कालेन रोगजनना जायन्ते दुष्टपीनसाः । वाधिर्य मान्ध्यमघ्राणं घोरांश्च नयनामयान् । कासाग्निगुरुरित्यादौ गुरुशब्दः कण्डूविशेषणम् । स्रोतसीति नासास्रोतसि । सर्वोऽतिवृद्ध इत्यादिना दृष्टप्रतिश्यायलक्षणमाह । अल मुखरोगं ये न पठन्ति ते शिरोरोगग्रहणेनैव मुखरोगस्य ग्रहणमिति मन्यन्ते । एतेषां दुष्टप्रतिश्यायक्षवथादीनां शालाक्यादिषु विस्तरः । अस तु पराधिकारत्वात्
सङक्षेप एव ॥ ६२ ॥ ६३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only