________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassa
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः]
चिकित्सितस्थानम् ।
३३२३ सन्धारणाजीणरजोऽतिभाष्य-क्रोधर्तुवैषम्यशिरोऽभितापैः। प्रजागरातिस्वपमाम्खुशीतैरवश्यया मैथुनवाष्पधूमैः। संस्त्यानदोषे शिरसि प्रदुष्टो वायुः प्रतिश्यायमुदोरयेत् तु ॥ घाणार्त्तितोदो क्षवथुर्जलाभः स्रावोऽनिलात् सस्वरशोषरोगः। नासायपाकज्वरवक्तशोषास्तृष्णास्रपीतस्रवणानि पित्तात् ॥ कासारुचिस्रावधनप्रसेकाः कफाद गुरुः स्रोतसि चापि कण्डूः ।
सर्वाणि रूपाणि तु सन्निपातात् स्युः पीनसेऽतीव रुजोऽतिदुःखे ॥६२॥
तथा लश्नपाचनञ्च कार्यम्। सर्च क्रिमिघ्नं भेषजं यद् यत् प्रागुक्तं तत् सव्व कार्य मिति । इति त्रिमीये हृदयमर्माविकाराः सनिदानचिकित्सिता व्याख्याता भवन्ति ॥ ६१॥
गङ्गाधरः-अथ शिरोमम्मंगतानां चिकित्सिते वक्तव्ये प्रथममल्पखानासारोगमाह-सन्धारणेत्यादि। अधार्यवेगानां प्रवर्त्तमानानां सन्धारणमजीर्णश्च रजोधुलिर्नासया प्रविष्टं प्रजागरो रात्रिजागरणम् अम्बुशीतैरम्बुनः शैत्यसेवनेन, अवश्यया अवश्याशब्दो निहारवाची। संस्त्यानो दोषः कफादिर्यत्र तस्मिन् शिरसि सति। एभिः प्रदुष्टो वायुः प्रतिश्यायमुदीरयेत्। तस्य लक्षणं घ्राणेत्यादि। घ्राणस्यार्तितोदौ स्वररोगः स्वरभङ्गः शीर्षरोगः शिर-पीड़ा, वातात् प्रतिश्याये भवन्ति। पित्तात् प्रतिश्याये नासाग्रपाकादीनि स्युः। कफात् प्रतिश्याये कासादिकण्डन्तानि स्युः। सन्निपातात् पीनसे प्रतिश्यायेऽतिदुःखेऽतीव रुजो भवन्ति, सर्वाणि च घ्राणार्त्तितोदादिकण्डन्तानि भवन्ति ॥१२॥
चक्रपाणिः-प्रमागतशिरोरोगचिकित्सायां वतन्यायां शिरोरोगहेतु प्रतिश्यायमेव तावदाह । शालाक्ये उक्तम्-'भूयिष्ठं व्याधयः सर्वे प्रतिश्यायनिमित्तजाः। तस्मात् रोगः प्रतिश्यायः पूर्वमेवोपदिश्यते' इति । यद्यपि राजयक्ष्मचिकित्सिते प्रतिश्याय उक्त एव, तथापि तन यक्ष्मपूर्वतया तथोक्तः। इह तु स्वतन्तः प्रतिश्याय उच्यत इति विशेषः। रजो धूलिः। अति. स्वप्नो दिवास्वप्नः। अवश्यायः तुषारः। संस्त्यानदोष इति निभृतदोषे। घ्राणा त्यादिना वातादिप्रतिश्यायानां चतुणी क्रमालक्षणमाह। सस्वरमूर्द्धरोग इति स्वररोगः स्वरभेदः। कफात्
For Private and Personal Use Only