________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३२२
चरक-संहिता। तिमीयचिकित्सितम् भुक्तेऽधिकं जीर्य्यति शूलमल्पं जीणे स्थितं स्यात् सुरदारु कुष्ठम् । सतिल्वकं द्वे लवणे विडङ्गमुष्णाम्बुना सातिविषं पिबेत् सः॥ जीणेऽधिक स्नेहविरेचनं स्यात् फलेविरेच्यो यदि जीयंति स्यात् । त्रिष्वेव कालेष्वधिके तु शूले
तीक्ष्ण हितं मूलविरेचनं स्यात् ॥ ६॥ प्रायोऽनिलो रुद्धगतिः प्रकुप्यत्यामाशये शोधनमेव तस्मात् । कार्य तथा लखनपाचनश्च सव्व क्रिमिघ्नं क्रिमिहृद्दे च ॥६॥ रूपेण त्रयाणामपि कर्म शस्तं स्यात् । भुक्त इत्यादि। त्रिदोषजे हृद्रोगे भुक्ते भुक्तमात्रे शूलमधिकं स्यात्, अन्ने जीर्यति बल्पं शूलम्, जीर्णेऽन्ने शुलं स्थितं स्यात्। तत्र स हृद्रोगी सुरदारुप्रभृतीनामतिविषान्तानां चर्णमुष्णाम्बुना पिबेत् । जीण इत्यादि । यस्मिन् हृद्रोगे त्रिदोषजेऽन्ने जीणऽधिकं शूलं स्यात् तत्र स्नेह विरेचनमेरण्डतैलादिना हितं स्यात्। तत्रान्ने जीर्यति सति यद्यधिक शुलं स्यात् तदा फलविरेचनोक्तफलिनीनां फलविरेच्यः स स्यात्। त्रिषु भुक्तमात्रजीय॑जीर्णषु कालेषु शूलेऽधिके तीक्ष्णं मूलं विरेचनं मूलिनीषु मध्ये यत् तीक्ष्णं मूलं विरेचनं तद्धितं स्यात् ॥ ६॥
गङ्गाधरः-क्रिमिहद्रोगचिकित्सामाह-माय इत्यादि। क्रिमिहद्रोगे च यस्मादनिलो रुद्धगतिः सन्नामाशये प्रायः प्रकुप्यति तस्मादेवैवं शोधनं कार्यम्, अपकतया तत् कार्यमिति वाक्यार्थः। भुक्तेऽधिकमित्यादिना सान्निपातिकहृद्रोगे प्रायो भाविशूलं लक्षणभेदेन विभजन चिकित्सति। भुक्तेऽधिकमित्यादिना श्लेष्मशूलमुच्यते। स्थित. मिति प्रशान्तम्। जीर्णेऽधिकमित्यादिना अनिलशूलम् । जीय॑ति अधिकमित्यनेन पैत्तिकं व्रते। फलैरिति द्राक्षाकाश्मर्यादिभिः। विष्वेवेत्यादिना सान्निपातिकशूलमाह। मूलविरेचनं त्रिवृन्मूलादिभिर्विरेचनम् ॥ ६॥
चप्रमाणिः-विरेचनोपपत्तिमाह-प्रायोऽनिल इत्यादि। अब चानिलकोपे यद्यपि वस्तिरुचिता तथापि आमाशयशोधनं विरेचनमेव ज्ञेयम्। कृमिन्नमिति व्याधितरूपीये कृमिहरत्वेनोक्तं विधानम् ॥ ६१ ॥
इति हृदोगचिकित्सितम्।
For Private and Personal Use Only