________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः] चिकित्सितस्थानम् ।
३३१६ पथ्याशटीपौष्करपञ्चकोलात् समातुलुङ्गाद यमकेन कल्कः । गुड़प्रसन्नालवणैश्च भृष्टो हृत्पार्श्वपृष्ठोदरयोनिशूले ॥५३॥ स्यात् त्रूाषणं द्वे त्रिफले सपाठे निदिग्धिकागोक्षुरको बले दु । मेदे त्रुटिस्तामलकी स्वगुप्ता त्रुटिर्मधूकं मधुकं स्थिरा च ॥ शतावरी जोवकपृश्निपण्यों द्रव्यैरिमरक्षसमः सुपिष्टैः। प्रस्थं घृतस्य प्रपचेद विधिज्ञः प्रस्थेन दध्ना त्वथ माहिषेण ॥ मात्रां पलं चाईपलं पिचुं वा प्रयोजयेन्माक्षिकसंप्रयुक्तम् । श्वासे सकासे त्वथ पाण्डुरोगे हलीमके हृदग्रहणीप्रदोषे ॥५४॥ शीतः प्रदेहः परिषेचनञ्च तथा विरेको हृदि पित्तदुष्टे । द्राक्षासिताक्षौद्रपरूषकः स्यात् कृच्छ्रे च पित्तापहमन्नपामम् ॥५५
गङ्गाधरः-पथ्येत्यादि। पथ्यादिमातुलुङ्गान्तानां कल्कः गुहादिभिः सह मिश्रितः यमकेन घृततैलाभ्यां भृष्टः हृदादिशुले हितः ॥५३॥
गङ्गाधरः-स्यादित्यादि। द्वे त्रिफले। हरीतकी चामलकी विभीतकमिति त्रयी। त्रिफलाऽथापरा-द्राक्षा काश्मयं सपरुषकमिति। द्वे बले मेदे च टे। त्रुटिः सूक्ष्मैला, पुनः पाठात् स्थूलैला च, भागद्वयं वा। जीवकपृश्निपावित्येकं पदम्। एषामक्षसमैः कल्कर्माहिषदना प्रस्थेन घृतप्रस्थं विपचेत् । शीते मधु पादिकं प्रक्षिपेत् । तस्य पलमर्द्धपलं कर्षमाणश्च क्रमेणोत्तमादिमात्रां प्रयोजयेत् श्वासादौ। अषणादिघृतम् ॥५४॥
गङ्गाधरः-चातहद्रोगचिकित्सितमुक्त्वा पित्तहृद्रोगचिकित्सितमाह-शीत इत्यादि । शीतस्य सर्वत्रान्वयः । द्राक्षादिभिरर्द्धशृतैर्जलैरनपानं स्यात् ॥५५॥
चक्रपाणिः-पथ्याशठीत्यादीनां कल्कः यमकेन भृष्टः गुडप्रसञ्चालवणैश्च पेय इति व्याख्येयम् ॥ ५३॥
चक्रपाणिः-टे। लिफले इत्यत्र द्राक्षाकाश्मर्थपरूषकाणि द्वितीया त्रिफला। खुटी एला सूक्ष्मैला ॥ ५४॥
चक्रपाणिः-शीत इति पित्तहृद्रोगचिकित्सिते ॥ ५५॥
For Private and Personal Use Only