________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३१८
चरक-संहिता। [विमर्मीयचिकित्सितम् रैलं ससौवीरकमस्तुतक वाते प्रपेयं लवणं सुखोष्णम् । मूत्राम्बुसिद्धं लवणैश्च तैलमानाहगुल्मार्तिहृदामयनम् ॥ पुनर्नवा दारु सपञ्चमूलं रास्नां यवान् कोलकुलत्थविल्वम् । पक्त्वा अले तेन पचेत् तु तैलमभ्यङ्गपानेऽनिलहृद्दनम् ॥४६॥ हरीतकीनागरपुष्कराहवयःकयस्थालवणैश्च कल्कैः । सहिङ्गभिः साधितमग्रासर्पिगुल्मे सहृत्पार्श्वगदेऽनिलोत्थे॥५० सपुष्कराह्न फलपूरमूलं महौषधं शठाभया च कल्काः । क्षाराम्धुसर्पिलवणैर्विमिश्राः स्युतिहृद्रोगविकर्तिकानाः ॥५१॥ क्वाथः कृतः पौष्करमातुलुङ्ग-पलाशपूतीकशटीसुराहः। सनागराजाजिवचायमानिः सदार उष्णो लवणश्च पेयः ॥ ५२ ॥ सङ्क्ष पवचनम्। कियन्तःशिरसीये विस्तरेण दर्शितं “त्रिदोषजे तु हृदोगे यो दुरात्मा निषेवते” इत्यादि । ४८॥
गङ्गाधरः-अथैषां चिकित्सितमाह-तैलमित्यादि। वातहदोगे सौवीरादियुक्तं तैलं प्रपेयम् । मूत्राम्बुभ्यां समाभ्यां सिद्धं सैन्धवं लवणं सुखोष्णं प्रपेयम् । लवणैश्च पञ्चभिस्तैलं प्रपेयमानाहादिनम् । पुनर्नवेत्यादि । पुनर्नवादीनि जलेऽष्टगुणे पक्त्वा, पादावशेषे काथे चतुर्गुणे सति सेन तैलं पचेत् । अभ्यङ्गार्थ पानार्थश्च ॥४९॥ ___ गङ्गाधरः-हरीतकीत्यादि। वयःस्थामलकी कयस्था सूक्ष्मैला। एभिः कल्कैश्चतुर्गुणे जलेग्रासर्पिर्गव्यसर्पिः॥५०॥
गङ्गाधरः-सपुष्कराहमित्यादि। फलपूरमूलं मातुलुङ्गमूलं पुष्करादीनां पञ्चानां कल्काः पञ्च पृथगेव क्षाराम्बुना सपिंषा सैन्धवलवणेन मिश्राः॥५१॥
गङ्गाधरः-काथ इत्यादि। पौष्करादिसुराबान्तैः कृतः काथः नागरादियमान्यन्तचूर्णयुक्तः पेयः। लवणः सैन्धवाख्यः सयवक्षार उष्णः सह जलेन पेयः॥५२
चक्रपाणिः-तैलमित्यादिना चिकित्सामाह। तैलादीनाम् अत समभागत्वं ज्ञ यम्। वयःकयस्थेति गुडूचीस्वरसग्रहणम् । अग्रसपिरिति अवाप्रपदं सम्यक् सर्पिषः प्राधान्य ख्यापनार्थम् । विकर्तिकेह हृदयपरिकर्त्तिकाकारा वेदना। काथः कृत इत्यादौ नागरादीनां बल्कं पौष्करादीनां काथमाहुः ॥ ४९-५२॥
For Private and Personal Use Only