________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३१७
२६श अध्यायः] चिकित्सितस्थानम् । व्यायामतीक्ष्णातिविरेकवस्तिच्छर्दग्रामसन्धारणकर्षणानि। चिन्ताभयत्रासगदाभिचारा हृद्रोगकर्तणि तथा विघातः ॥४६॥
वैवर्ण्यमूर्छाज्वरकासहिकाश्वासास्यवरस्यतृषाप्रमोहाः। छदिः कफोल शरुजोऽरुचिश्च
हृद्रोगजाः स्युर्विविधास्तथान्ये ॥४७॥ हृच्छून्यभावद्रवशोषभेदस्तम्भाः समोहाः पवनाद विशेषः । पित्तात् तमोदूयनदाहमोहाः सन्त्रासतापज्वरपोतभावाः ॥
स्तब्धं गुरु स्यात् स्तिमितञ्च मर्म कफात् प्रसेकज्वरकासतन्त्राः। विद्यात् त्रिदोषन्त्वपि सर्वलिङ्गं
तीवार्तितोदं क्रिमिजं सकण्डम् ॥४८॥ गङ्गाधरः-अथ हृदयमगंजा रोगा व्याख्यायन्ते। कियन्तःशिरसीये प्रागुक्तं पञ्चैव हृदयामया इति, तेषाश्च शोकोपवासेत्यादिना सनिदानलक्षगा. न्युक्तानि। पुनरिह चिकित्सार्थ सनिदानलक्षणान्याह-व्यायामेत्यादि । व्यायामाद्यभिचारान्तानि तथा विघातश्चेत्यन्तानि हृद्रोगका णि भवन्ति ।। ४६ ॥
गङ्गाधरः-दोगसामान्यलक्षणमाह-वैवर्ण्यत्यादि। हृद्रोगजा हृद्रोगे जायन्त इति ॥४७॥ ___ गङ्गाधरः-विशेषलक्षणमाह। हृच्छून्येत्यादि। हृदयस्य शुन्यभावश्च द्रवश्च धधकरणं शोषश्च भेदश्च स्तम्भश्च, पवनादेष विशेषः। पित्तादाहपित्तादित्यादि। स्तब्धमित्यादि कफहृद्रोगलक्षणम्। मम्मे प्रकरणादिह हृदयम् । विद्यादित्यादिमा त्रिदोषहृद्रोगलक्षणम् । तीव्रार्तितोदं क्रिमिजमितीह
चक्रयाणिः-निदानादिक्रमेग हृद्रोगचिकित्सामाह-गदातिचार इत्यसम्यगुपचारः। वैवादिषु हृद्रोगजेषु हृद्रोगजा इति वचनं हृद्रोगोत्पत्तिसमकालमेव वैवादयो भवन्तीति ज्ञापनार्थम् । यस्मान् तरुमकासे वैवादय उपद्रवा भवन्ति इह तु वैवादयः हृद्रोगमुत्पादयन्ति । हृदोगश्च कियन्तःशिरसीये विस्तरेणोक्तः । चिकित्साप्रकरणात् इह सङक्षेपेणाभिधीयते । मर्मति हृदयम् ॥ ४६-४८॥
४१६
For Private and Personal Use Only