________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३२०
चरक संहिता ।
पिष्ट्रा पिबेच्चापि सिताजलेन यष्टाह्वयं तिक्तकरोहिणीञ्च । चतेषु सर्पी पि हितानि सर्पिगड़ाश्च ये तान् प्रसमीच्य सम्यक् ॥ ५६ ॥ दद्याद् भिषक् धन्वरसान्नगव्य-क्षीराशिनां पित्तहृदामयेषु । तैरेव सर्व्वे प्रशमं प्रयान्ति पित्तामयाः शोणितसंश्रया ये ॥ ५७ ॥ द्राक्षाबलाश्रेयसिशर्कराभिः खर्जूरवीरर्षभकोत्पलैश्च । काकोलिमेदायुगजीव कैश्च चीरेण सिद्धं महिषीघृतं स्यात् ॥ कशेरुका शैवलशृङ्गवेर-प्रपौण्डरीकं मधुकं विसस्य । ग्रन्थिश्च सर्पिः पयसा पचेत तैः चौद्रान्वितं पित्तहृदामयन्नम् ॥ स्थिरादिकल्कैः पयसा च सिद्धं द्राचार सेनेचुरसेन वापि । सर्पिर्हितं स्वादुफलेक्षुजाश्च रसाः सुशीता हृदि पित्तदुष्टे ॥ ५८
Acharya Shri Kailassagarsuri Gyanmandir
[मिम्यचिकित्सितम्
गङ्गाधरः- पिष्ट्वेत्यादि । यष्टग्राहयादिद्वयं सिताजलेन पिष्ट्वा पिबेत् ॥ ५६ ॥ गङ्गाधरः- उरसः क्षतेषु यानि सर्पषि ये च सर्पिर्गुड़ा उक्तास्तान् धन्वरसान्नगव्य क्षीराशिनां दद्यात् ॥ ५७ ॥
गङ्गाधरः- द्राक्षेत्यादि । द्राक्षादिभिः कल्कैरेकं घृतम्, खज्जू रादिभिरेकम्, काकोल्यादिभिरेकमिति घृतत्रयम् सर्व्वत्र क्षीरं चतुर्गुणम् । कशेरुकेत्यादि । विसस्य मृणालस्य ग्रन्थिः । एतदन्तैः कल्कैः पयसा चतुर्गुणेन सर्पिः पचेत् । शीते मधु पादिकम् । स्थिरादीत्यादि । स्थिरादिः शालपर्ण्यादिः कल्कः पयश्चतुर्गुणमथवा द्राक्षारसचतुर्गुणः किंवा चतुर्गुण इक्षुरस इति घृतत्रयं हितम् । एवं स्वादुफलजा द्राक्षादिफलजा रसा इक्षुरसाश्च सुशीता हिताः ॥ ५८ ॥
For Private and Personal Use Only
चक्रपाणिः - क्षतेष्विति क्षतक्षीण चिकित्सिते । श्रेयसी रास्ना । खर्जूरं खर्जूरफलम् । क्षौद्रान्वितमिति साधनोत्तरकालं पादिकमधुयुक्तम् । स्वादुफलेत्यादौ
रसा इति
स्वरसाः ॥ ५६ – ५८ ॥