________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३१४
चरक-संहिता। [त्रिमर्मीयचिकित्सितम् रेतोविघातप्रभवे तु कृच्छ्रे समोक्ष्य दोषं प्रतिकर्म कुर्य्यात् । कार्पासमूलं वसुकाश्मभेदी बला स्थिरादोनि गवेधुका च ॥ वृश्चीरमैन्द्री च पुनर्नवा च शतावरी मध्वशनाखुपण्यौ । तत्काथसिद्धं पक्ने नरस्य पित्ताधिके क्षीरमथाऽपि सर्पिः॥ कफे तु यूषादिकमन्नपानं संसर्गजे सर्वहितः क्रमः स्यात्॥४१॥ एवं न चेच्छाम्यति तस्य दद्यात् सुरां पुराणां मधु माविकंवा । विहङ्गमांसानि च वृहणार्थं वस्तिश्च शुक्राशयशोधनार्थम् । शुद्धस्य तृप्तस्य च वृष्ययोगाः प्रियानुकूलाः प्रमदा विधेयाः ॥४२ रक्तोद्भवे तूत्पलनालताल-काशेक्षुबालेदुकशेरुकाणि । पिबेत् सिताक्षौद्रयुतानि खादेदिक्षु विदारों त्रपुषाणि चैव ॥ योनिच्छेदाद रुजः प्रादुर्भावः । वस्तिगुदविद्धलक्षणं प्रागुक्तमिति । भवतश्चात्र । माण्यष्टावसम्बुध्य स्रोतोजानि शरीरिणाम् । व्यापादयेद बहून् मान् शस्त्रकर्मापदभिषक् । सेवनी मुष्क(शुक्र)हरणी स्रोतसी फलयो दम्। मूत्रसेकं मूत्रवहं मूत्रवस्तिस्तथाष्टमः ॥ इति ॥४०॥
गङ्गाधरः-अथ शुक्रविघातजमूत्रकृच्छचिकित्सामाह-रेत इत्यादि। कार्पासमूलादीनां काथमिद्धं क्षीरमथवा सर्पिः पित्ताधिके पवने । कफेऽधिके तु तेषां काथसिद्धं यूषव्यञ्जनादिकं यवाग्वाद्यन्नपानञ्च । संसर्गजे सव्वषु वातादिषु त्रिषु हितो यः क्रमः स विहितः स्यात् ॥४१॥ ___ गङ्गाधरः-एवमित्यादि। एवमुक्तक्रमेण चेद्रेतोविघातजमूत्रकृच्छ न शाम्यति, तदा तस्य पुराणां सुरां दद्यात्। मधु वा पुराणं माध्विकं वा पुराणमेव। विहङ्गमांसेन तृप्तस्य वस्तिना शुद्धशुक्राशयस्य च वृष्ययोगा वाजीकरणोक्ताः प्रिया अनुकूलाश्च प्रमदा विधेयाः। इति ॥४२॥ . गङ्गाधरः-रक्तजमूत्रकृच्छचिकित्सामाह-रक्तोद्भवे खित्यादि । शल्यादिभिः क्षतेऽभिघाते वा क्षयाद् वा जाते रक्तोद्भवे मूत्रकृच्छे उत्पलनालादीनि समानि पिष्ट्वा सिताक्षौद्रयुतानि पिवेत् । इक्षु खादेव उक्तविधानेनाश्मरीमाकषत् । समीक्ष्येति दोषमुल्बणं समीक्ष्य। मध्वशनाखुपण्यौ मधुपर्णी गुड़ ची, अशनपर्णी अपराजिता। संसर्गज इति त्रिदोषजे ॥३८-४१॥
For Private and Personal Use Only