________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६श अध्यायः
चिकित्सितस्थानम् ।
घृतं श्वदंष्ट्रावरसेन सिद्धं चोरेण चैवाष्टगुणेन पेषम् । स्थिरादिकानां कतकादिकानामेकैकशो वा विधिनैव तेन ॥ ४३ ॥ चीरेण वस्तिर्मधुरौषधैः स्यात् तैलेन वा स्वादुफलोत्थितेन । यन्मूत्रकृच्छ्रे विहितन्तु पैत्ते तत् कारयेच्छोणितमूत्रकुच्छ्रे ॥४४॥ व्यायामसन्धारणशुष्कभक्ष- पिष्टान्नवातार्ककरव्यवायान् । खज्जू रशालूककपित्थजम्बू-विसं कषायं न रसं भजेत ॥ ४५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
३३१५
विदारीमूलं त्रपुषफलानि च खादेत् । घृतमित्यादि । श्वदंष्ट्रा स्वरसेनाष्टगुणेन क्षीरेण चाष्टगुणेन सिद्धं घृतं पेयम् । स्थिरादिकानां शालपर्ण्यादिपञ्चमूलानामेकैकशालपर्ण्यादीनामेकैककतकादीनां सर्व्वेषां स्थिरादीनां सर्वेषां कतकादीनां वा तेनैव विधिनाष्टगुणेन स्वरसेनाष्टगुणेन क्षीरेण सिद्धं घृतं पेयमिति ॥ ४३ ॥
गङ्गाधरः- क्षीरेणेत्यादि । क्षीरेण वस्तिः स्यादथवा मधुरौषधे जीवनीयवस्तिः स्यात् । स्वादुफलानां वीजोत्थितेन तैलेन वा वस्तिः स्यात् । पैत्ते मूत्रकृच्छ्रे यदोषधं विहितं तदपि शल्यादिक्षते रक्तजमूत्रकृच्छ्र कारयेदिति ॥ ४४ ॥
गङ्गाधरः – सर्व्वेषु वज्र्ज्यान्याह - व्यायामेत्यादि । सन्धारण मूत्रादिवेगानाम्, शुष्कद्रव्यभक्षणञ्च पिष्टान्नञ्च वातञ्चार्ककरञ्च व्यवायश्च खर्ज्ज रा दीनि च कषायं रसञ्च मूत्रकृच्छी न भजेत । इह मूत्रकृच्छ मूत्राघातानां हेतुत्वादवरोधमभिप्रेत्य नोक्तिः । सुश्रुते च पृथङमूत्राघात उक्तः, तद्यथा - "वातकुण्डलिकाऽष्टीला वातवस्तिस्तथैव च । मूत्रातीतः सजठरो मूत्रोत्सङ्गक्षयो तथा। मूत्रग्रन्थिमूत्रशुक्रमुष्गवातस्तथैव च । मूत्रौकसादौ द्वौ चापि रोगा द्वादश कीर्त्तिताः । रौक्ष्याद वेगविघाताद वा वायुर्वस्तौ सवेदनम् । मूत्रं संगृह्य चरति विगुणः कुण्डलीकृतः । सृजेदल्पाल्पमथवा सरुजश्च शनः शनैः ।
वात
For Private and Personal Use Only
1
चक्रपाणिः - खादेदिति सिद्धान्येव खादेत् । घृतं श्वदंष्ट्र त्यादौ साहचर्य्यात् केचित् श्वष्टा स्वरसं अष्टगुणं वदन्ति । तत्र स्नेहसम एव स्नेहेषु भवति । उक्तं हि जतूकर्णे 'कल्काच्चतुर्गुणः स्नेहः स्वरसः स्नेहसम्मितः' इति । तेन क्षीरवत् सर्व्वस्नेहेषु स्वरसाभिधानं ज्ञेयम् । स्थिराहिफानां मधुररसपाकानां कृतककाश्मय्यादीनां उक्त गणो ज्ञेयः । विधिनैव तेनेति पूर्वघृतविधानैः