________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३१२
चरक-संहिता। [त्रिमर्मीयचिकित्सितम् विल्वप्रमाणो घृततैलभृष्टो यूषः कृतः शिग्रंकमूलकल्कात् । शीतोऽश्मभित् स्याद् दधिमण्डयुक्तः पेयः प्रकामंलवणेन युक्तः॥ जलेन शोभाञ्जनमूलकल्कः शोतो हितश्चाश्मरिशर्करासु॥३८॥ सितोपला वा समयावशूका कृच्छ षु सर्वेष्वपि भेषजं स्यात् ॥३६ पीत्वा च मद्य निगदं रसेन हयेन वा शीघ्रजवेन यायात् । तैः शर्करा प्रच्यवतेऽश्मरी च शाम्येन्न चेत् शल्यविदुद्धरेत् ताम्॥४०
गङ्गाधरः-विल्वेत्यादि। शिग्रु मूलकल्ककर्षः । मुद्गादिविदल प्रास्थिकजलाचतुर्दशभागेकभाग पक्त्वा चतुर्थभागशिष्टो यूषः कृतो घृततैले मिलिते सम्भृष्टरतस्माद बिल्वप्रमाणः पलप्रमाणो यूषः शीतः प्रकाममिच्छानुरूपं लवणयुक्तो दधिमण्डयुक्तो दधिमस्तुना युक्तः पेयोऽश्मभित्। जलनेत्यादि। शोभाञ्जनमूलकल्कः शीत एव जलेन पिष्ट्वा पेयः ॥३८॥ ... गङ्गाधरः-समयावशूका सितोपला वा जलेन पीता ॥३९॥
गङ्गाधरः-पीत्वेत्यादि। निगदसंज्ञ मद्य मांसरसेन पीला शीघ्रजवेन हयेनाश्वेन यायाद् गच्छेत् । तैरिति एतदन्तैः पूर्वोक्तः शकराश्मरी च प्रच्यवते। चेदेतैर्न शर्करा चाश्मरी च शाम्येत्, तदा शल्याङ्गायुर्वेद विद् वैद्यस्तां शर्करामश्मरीञ्चोद्धरेत् । शल्याङ्गप्रधानसुश्रुते चोक्तम् । “घृतैः क्षारैः कषायैश्च क्षीरैः सोत्तरवस्तिभिः। यदि नोपशमं गच्छेत् छेदस्तत्रोत्तरो विधिः। कुशलस्यापि वैद्यस्य यतः सिद्धिरिहाध्र वा। उपक्रमो जघन्योऽयमतः सम्परिकीर्तितः। अक्रियायां ध्र वो मृत्युः क्रियायां संशयो भवेत् । तस्मादापृच्छा कर्त्तव्यमीश्वरं साधुकारिणा। अथ रोगान्वितमुपस्निग्धमपकृष्टदोषमीपत्कशितमभ्यक्तस्विन्नशरीरं भुक्तवन्तं कृतवलिमङ्गलस्वस्तिवाचनमग्रोपहरणीयोक्तेन विधानेनोपकल्पितसम्भारमाश्वास्य, ततो बलवन्तमविक्लवमाजानुसमे फलके प्रागुपवेश्य पुरुषञ्च, तस्योत्सङ्गे निषण्णपूर्वकायमुत्तानमुन्नतकटीकं वस्त्रधारकोपविष्टं सङ्कुचितजानुकूपरमितरेण सहावबद्धं सूत्रेण शाटकैर्वा । ततः स्वभ्यक्तनाभिप्रदेशस्य वामपावं विमृद्य मुष्टिनावपीड़येदधोनाभेर्यावदश्मर्याधः प्रपन्नेति। ततः स्नेहाभ्यक्त क्लुप्तनखे वामहस्तप्रदेशिनीमध्यमे पायो प्रणिधायानुसेवनीमासाद्य प्रयत्नबलाभ्यां पायुमेदान्तचक्रपाणि:-अश्मभिदिति अश्मरिभेदी । सितोपला शर्वरा। शल्यवित् हरेदिति शल्यवित्
For Private and Personal Use Only