________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६ अध्यायः ]
चिकित्सितस्थानम् ।
३३११
उत्कुञ्चिका हिङ्ग सवेतसाम्लं स्याद् द्वे वृहत्यो हवुषा वचा च । चूर्णं पिबेदश्मरिभिद विपक्वं सर्पिश्च गोमूत्रचतुर्गण तैः ॥३४ मूलं श्वदंष्ट्रातुरकोरुवूकात् चीरेण पिष्टं वृहतोद्वयाच्च । आलोड्य दध्ना मधुरेण पेयं दिनानि सप्ताश्मरिभेदनार्थम् ॥३५ पुनर्नवायोरजनीश्वदंष्ट्रा फल्गुप्रबालाश्च सदर्भपुष्पाः । चीराम्बुमदारसप्रविष्टं पेयं भवेदश्मरिशर्करासु ॥ ३६ ॥ एला शताह्वा लवणानि पञ्च कम्पिल्लकं गोक्षुरकस्य वीजम् । यवाग्रजं कुन्दुरुकाश्मभेदावेव्वारुकाच्च त्रपुषाच्च वीजम् । चूर्णीकृतं चित्रकहिगुमांसी - यमानीतुल्यं त्रिफलाद्विरंशम् । अम्लैरनुष्णै रसमययूषैः पेयानि गुल्माश्मरिभेदनानि ॥ ३७ ॥
देशजा । हिंस्रादीनां पञ्चानां वीजं उत्कुञ्चिका कृष्णजीरकं हवुषा आउच इति लोके । एषां चूर्णमश्मरीभित् । तः पाषाणभेदादिभिः कल्फैगसूत्रचतुर्गुणं सर्पिर्विपञ्चाश्मरीभित् ॥ ३४ ॥
गङ्गाधरः- मूलमित्यादि । श्वदंष्ट्रादीनां मूलं क्षीरेण पिष्टं सप्तदिन मश्मरीभेदनार्थ पेयम् । बृहतीद्वयाच्च मूलं मधुरेणानम्लेन दध्ना पिष्टमालोक्य पेयमिति ।। ३५ ।।
1
गङ्गाधरः - पुनर्नवेत्यादि । अयो मारितपुटित लौहरजः । फल्गु कोटोडुम्बरफलम् । प्रबालश्च चूर्णितः । दर्भपुष्पं उल्लाकपुष्पम् । सर्व्वमिदं क्षीराद्यन्यतमेन पिष्ट पेयमिति ॥ ३६ ॥
I
गङ्गाधरः – एलेत्यादि । एर्व्वरुत्रपुषयोर्वीजम् । त्रपुषवीजान्त ं सर्व्वं समं नीखा चूर्णीकृतं यावन्मितं भवति तत् सर्व्वं चित्रकादीनां चतुर्णां प्रत्येक समानानां मिलितानां तुल्यं त्रिफलाद्विरंशं पुपवीजान्त सर्व्वचूर्णाद द्विगुणं त्रिफला चूर्णमेकीकृत्य सर्व्वाणि मात्रयानूष्णरम्ठैः पेयानि मांसरसमययूषैवी पेयानि ॥ ३७ ॥
शितिमारकः कुन्दकुसुमख्यातः । त्रिफलाद्विभागमिति त्रिफलायाः प्रत्येकं मूलभागात् भागद्वयम् । अम्लैरिति काञ्जिकादिभिः । अशुक्तैरिति शुक्तवज्र्जितैः । मद्यग्रहणात् तत्र वस्तिशोधनत्वं भइमरीभेदकप्रकर्षख्यापनार्थं पुनरुच्यते ॥ ३३–३७ ॥
For Private and Personal Use Only