________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३०८
चरक-संहिता। [त्रिमौचिकित्सितम् एतानि चान्यानि वरौषधानि हितानि पिष्टान्यपि चोपनाहे । स्युर्लाभतस्तैलफलानि चैव स्नेहाम्लयुक्तानि सुखोष्णवन्ति ॥२५ सेकावगाहाः शिशिराः प्रदेहा प्रेमो विधिर्वस्तिपयोविरेकाः। द्राक्षाविदारीक्षुरसैघृ तैश्च कृच्छ्षु पित्तप्रभवेषु कार्याः ॥ २६ ॥ शतावरीकाशकुशश्वदंष्ट्रा-विदारिशालीक्षुकशेरुकाणाम् । काथं सुशोतं मधुशर्कराभ्यां युत्तया पिबेत् पैत्तिकमूत्रकृच्छ्र । पिबेत् कषायं कमलोत्पलानां शृङ्गाटकानामथवा विदार्याः । दण्डोत्पलानामथवापि मूलं पूर्वेण कल्पेन तथाम्बु शीतम् ॥२७ मिति। तत् तलादिकं मात्रया पीतमाशु शूलान्वितं मारुतमूत्रकृच्छ प्रतिहन्ति ।। २४॥
गङ्गाधरः-एतानीत्यादि । एतानि पुनर्नवादीनि पत्तूरादीनि द्विपञ्चमूलानि कुलत्थादीनि च तथान्यानि तन्त्रान्तरोक्तानि हितानि वरोषधानि पिष्टान्युपनाहे हितानि स्युर्यथालाभतः। तलफलानि च तिलक्षमादीनि स्नेहघृतादिभिरम्लैस्तिन्तिडीकादिभिश्च युक्तानि पिष्टानि सुखोष्णवन्ति उपनाहे हितानि स्युरिति । वातमूत्रकृच्छचिकित्सितमुक्तम् ॥२५॥
गङ्गाधरः-अथ पित्तमूत्रकृच्छचिकित्सितमाह-सेकेत्यादि। शिशिराः सेकादयः। तथा तस्याशितीयोको ग्रष्मो विधिः। तथा वस्तिश्च पयश्च विरेकश्चेति त्रयो द्राक्षादिभिः कार्याः ॥२६॥
गङ्गाधरः-शतावरीत्यादि। शतावादीनां मूलकाथं सुशीतं मधुशर्कराभ्यां युक्तं युक्त्या पिबेत् । पिबेदित्यादि । कमलादीनां कषायं पूर्वकल्पेन मधुशराभ्यां युक्तं पिबेदथवा दण्डोत्पलाया मूल काथयिता मधुशर्कराभ्यां युतं पिबेत्, तथा शीतमम्बु मधुशकेराभ्यां युतं पिबेत् ॥२७॥ वातहरत्वेन प्रतिपादितः। पत्तूरः सालिञ्चिका। अश्मभित् पाषाणभेदः। अन्यानि चैवगुगानि आस्फोतादीनि ॥ २३-२५॥
चक्रपाणिः-प्रैष्मो विधिरिति । तस्याशीतीयोक्तग्रीष्मविधिः, तत्र शिशिरावेव सेकावगाही यद्यप्युक्तो तथापि विशेषेण शिशिरसेकावगाहकरणार्थं पुनरभिधानम् । दण्डोत्पलं भश्म इति ख्यातम्। पूर्वेण कल्पेनेति काथेन मधुशर्करयोर्योगेन च ।। २६ ॥ २७ ॥
For Private and Personal Use Only