SearchBrowseAboutContactDonate
Page Preview
Page 1078
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६श अध्यायः] चिकित्सितस्थानम् । अभ्यञ्जनस्नेहनिरूहवस्ति-स्वेदोपनाहोत्तरवस्तिसेकान् । स्थिरादिभिर्वातहरैश्च सिद्धानद्याद्रसांश्चानिलमूत्रकृच्छ् ॥ २३ ॥ पुनर्नवैरण्डशतावरीभिः पत्तूरवृश्चीरबलाश्मभिद्भिः । द्विपञ्चमूलेन कुलत्थकोल-यवैश्च तोयोत्कथिते कषाये ॥ तैलं वराहक्षवसा घृतं तैस्तैरेव कल्कैलवणैश्च साध्यम् । तन्मात्रयाशु प्रतिहन्ति पोतं शूलान्वितं मारुतमूत्रकृच्छम् ॥२४॥ बस्तिसुगौरवञ्च। विनिःसृते तस्मिन्नश्मरीभूते क्षतजे वस्तेलघुत्वं स्यादिति आगन्तुजमष्टमं मूत्रकृच्छमिति। सुश्रुते चोक्तम् । “मूत्रबाहिषु शल्येन क्षतेष्वभिहतेषु च । स्रोतःसु मत्राघातस्तु जायते भृशवेदनः । वातवस्तेस्तु तुल्यानि तस्य लिङ्गानि लक्षयेत्” ॥ इति। वातवस्त्यादयो मूत्राघातसंज्ञकाः सुश्रुतोक्ता दर्शयिष्यन्तेऽत ऊद्ध मिति । इति मूत्रकृच्छाख्यमूत्राघातनिदानमुक्तं भवति ॥२२॥ गङ्गाधरः-अथातश्चिकित्सितमाह-अभ्यञ्जनेत्यादि। अनिलमत्रकृच्छ अभ्यञ्जनादयः सेकान्ताः कार्याः। स्थिरादिभिः शालपादिभिः पञ्चमूले. वतिहरैश्वान्यैः सिद्धान् रसांश्चाद्यादिति ॥२३॥ गङ्गाधरः-पुनर्नवेत्यादि। पुनर्नवादिभिस्तोयोत्कथिते कषाये चतुर्गुणे तैस्त्रिभिः कल्कैः पञ्चभिश्च लवणैः पादिकरतैलं साध्यम्, तथा वराहवसा साध्या, तथा ऋक्षस्य हरिणस्य वसा साध्या, तथा गव्यं घृतं साध्यमिति । एवं पत्तरादिभिश्चतुर्भिस्तोयेनाष्टगुणेनोत्कथिते कषाये चतुणे तैरेव चतुर्भिः पञ्चभिर्लवणेः पादिकैः कल्कैस्तैलादिकं साध्यम् । पत्तूरः शालिञ्चः । अश्मभित् अम्ललोटिका अश्मान्तको वा। तथा द्विपञ्चमूलेन दशमूलेनाष्टगुणतोयोत्कथिते चतुर्भागावशिष्टे चतुर्गुणे कपाये तैर्दशमूलेः पञ्चभिलवणैः पादिकैः कल्कैः तैलादिकं साध्यम्। तथा कुलत्थकोलयवैश्चाष्टगुणतोयोत्कथिते चतुर्भागशेषे कषाये चतुर्गुणे तरेव त्रिभिः पञ्चभिलेवणैश्च कल्कैः पादिकैस्तैलादिकं साध्य वहति मूत्राघाते मूत्रं शोष्यते प्रविहन्यते। सुश्रुतेऽपि च मूत्रकृच्छ्रमूत्राघातयोर्विशेषोऽध्याय. भेदेनवोक्तः । श्रन्ये तु भूतकृच्छ्राविशेषेणैव मूत्राघातानाहुः। यथायोग्यतया वातपित्तजादिचतुर्यु मूत्रकृच्छ्रेषु मूत्राघातान् अन्तर्भावयन्ति, तेन न पृथङमूत्राघाताभिधानम् ॥ २२॥ धक्रपाणिः-मूत्रकृच्छचिकित्सामाह-अभ्यञ्जनेत्यादि। स्थिरादिभिः पञ्चमूलातहरैरिति For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy