________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३०६
चरक-संहिता। [त्रिमर्मीयचिकित्सितम् शुक्र मलाश्चैव पृथक् पृथग वा मूत्रायणस्थाः परिपोडयन्ति । तव्याहतं मेहनवस्तिशूलं मूत्रं सशुक्र कुरुते विबद्धम् ॥ स्तब्धश्च शूनो भृशवेदनश्च तुदेत वस्तिर्वृषणौ च तस्य ॥२१॥ क्षताभिघातात् क्षतजं क्षयाद वा प्रकोपितं वस्तिगतं विबद्धम् । तीवाति मृत्रेण सहाश्मरीत्वमायाति तस्मिन्नतिसञ्चिते च। .
आध्मातता वस्तिसुगौरवञ्च वस्तेर्लघुत्वञ्च विनिःसृते स्यात् ॥२२॥ सुश्रुते च–“अश्मरो शर्करा चैव तुल्ये सम्भवलक्षणैः। शर्करायां विशेषन्तु शृणु कीत्तयतो मम। पच्यमानस्य पित्तेन भिद्यमानस्य वायुना। श्लेष्मणो. ऽवयवा भिन्नाः शर्करा इति संशिताः। हृत्पीड़ा वेपथुः शूलं कुक्षौ वह्निः सुदुर्बलः। ताभिर्भवति मूर्छा च मूत्राघातश्च दारुणः। मत्रवेगनिरस्तासु तासु शाम्यति वेदना। यावदन्या पुनर्नति गुटिका स्रोतम्रो मुखम् । शर्करासम्भवस्य तन्मूत्राघातस्य लक्षणम् ॥” इति ॥२०॥
गङ्गाधरः-शराजमूत्रकृच्छलक्षणमुक्त्वा शुक्रजमूत्रकृच्छमाह-शुक्रमित्यादि। । शुक्रं मलाश्च वातादयः समस्ताः पृथग वा मूत्रायणस्था यदा परिपीड़यन्ति, तदा तद वातादिमलव्याहतं मेहनवस्तिशूलं यथा स्यात् तथा सशुक्रं मूत्रं विबद्धं कुरुते, पुमान् मूत्रयतीत्यर्थः। तस्य नरस्य बस्तिस्तब्धश्चेत्यादिः स्यात् । वृषणौ च स्तब्धावित्येवमादी स्यातामिति शुक्रप्रतिघातजमूत्रकृच्छमिदं सुश्रुतेन न पठितं शुक्राश्मरीजेऽवरोधात् ॥२१॥
गङ्गाधरः-आगन्तुमूत्रकृच्छमाह-क्षताभिघातादित्यादि । शल्यादिभिः क्षताद दण्डादिभिरभिघाताद वा वस्तिगतं क्षतजं रक्तं प्रकोपितमथवा क्षयाद रसादीनां प्रकोपितं वस्तिगतं क्षतजं विबद्धं सत् मूत्रेण सह वीत्रार्ति सदश्मरीखमायाति । तस्मिन् क्षतजेऽतिसञ्चिते आध्मातता भवति वस्तावेव.
चक्रपाणिः-शुक्रं मला इत्यादिना शुत्रमूत्रकृच्छलक्षणम्। शुक्राशयस्था इति शुक्रमार्गस्थिताः ॥२१॥
चक्रपाणिः-क्षतेत्यादिना रतजं मूत्रकृच्छ्रमाह । क्षतजमिति रक्तम् । क्षयाद डा प्रकोपितमिति अतिव्यवायात् शुक्रक्षये सति वायुनोदीय बस्तिमानीतम् । माध्माततामिति बस्तिपूर्णताम् । तस्मिन्निति वस्तिसञ्चितरक्त । एवं सूखस्थानोद्दिष्टाष्टौ मूत्राघाता मूत्रकृच्छशब्देनेह निहिश्य व्याकृताः। ये तु निमर्मीयसिद्धौ त्रयोदश मूखाधाता वक्तव्यास्ते सूतस्थानेऽसूतिता अपि एकादशक्षुद्रकुष्टवदन्तर्भावनीयाः। मूत्राघातमूत्रकृच्छ्योश्चायं विशेषो यन्मूत्रकृच्छे मूत्रं कुच्छेण
For Private and Personal Use Only