________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श भध्यायः चिकित्सितस्थानम्। ३३०५ विद्यात्। प्रायेणैतारितस्रोऽश्मर्यो 'दिवास्वमसमशनाध्यशनशीतस्निग्धगुरुमधुराहारप्रियवाद विशेषेण बालानां भवन्ति। तेषामेवाल्पवस्तिकायवादनुपचितमांसवाच्च वस्तेः सुखग्रहणाहरणा भवन्ति। महतान्तु शुक्राश्मरी शुक्र निमित्ता भवति । मैथुनाभिघातादमैथुनाट वा शुक्रं चलितमनिगछेद विमार्ग: गमनादनिलोऽभितः संगृह्य मेषणयोरन्तरे संहरति संहत्य चोपशोषयति सा मूत्रमार्गमावृणोति मूत्रकृच्छ वस्तिवेदनां वृषणयोश्च श्वयथुमापादयति पीड़ितमात्रे च तस्मिन्नेव प्रदेशे प्रविलयमापद्यते, तां शुक्राश्मरीमिति विद्यात् । भवन्ति चात्र । शर्करासिकतामहो भस्माख्योऽश्मरिचकृतम्। अश्मय्याः शर्करा शेया तुल्यव्यञ्जनवेदना। पवनेऽनुगुणे सा तु निरेत्यल्पा विशेषतः । या भिन्नमृतिर्वातन शकरेत्यभिधीयते। हृत्पीड़ा सचिसद कुक्षिशूलः सवेपथुः। तृष्णोद्ध गोऽनिलः काश्य दौर्बल्यं पाण्डुगात्रता। अरोचकाविपाको तु शर्करात भवन्ति च । मत्रमार्गप्रवृत्ता सा सक्ता कुर्य्यादुपद्रवान् । दौर्बल्यं सदनं काय कुक्षिशूलमरोचकम् । पारु समुष्णवातश्च तृष्णां हृत्पीड़नं वमिम् । नाभिपृष्ठ. कटीमुष्क-गुदवङ्गणशेफसाम् । एकद्वारस्तनुखको मध्ये वस्तिरधोमुखः । अलाव्या इव रूपेण सिरास्नायुपरिग्रहः । वस्तिर्वस्तिशिरश्चैव पौरुषं वृषणी गुदम् । एकसम्बन्धिनो ह्ये ते गुदास्थिविवरस्थिताः। मूत्राशयो मलाधारः प्राणायतनमुत्तमम्। पक्काशयगतास्तत्र नाड्यो मूत्रवहास्तु याः। तर्पयन्ति सदा मूत्रं सरितः सागरं यथा। सूक्ष्मखान्नोपलभ्यन्ते सुखान्यासां सहस्रशः। नाड़ीभिरुपनीतस्व मूत्रस्यामाशयान्तरात् । जाग्रतः स्वपतश्चैव स निःस्यन्देन पूर्यते। आ मुखात् सलिले न्यस्तः पाश्वभ्यः पूर्यते नवः। घटो यथा तथा विद्धि वस्तिमूत्रेण पूर्यते । एवमेव प्रवेशेन वातः पित्तं कफोऽपि वा। मूत्रयुक्त उपस्नेहात् प्रविश्य कुरुतेऽश्मरीम्। अप्सु स्वच्छास्वपि यथा निषिक्तासु नवे घटे। कालान्तरेण पङ्कः स्यादश्मरीसम्भवस्तथा। संहन्त्यापो यथा दिव्या मारुतोऽग्निश्च वैदुप्रतः। तद्वद् बलासं वस्तिस्थमुष्मा संहन्ति सानिलः । मारुते प्रगुणे वस्तौ मूत्रं सम्यक प्रवर्तते। विकारा विविधाश्चापि प्रतिलोमे भवन्ति हि। मूत्राघाताः प्रमेहाश्च शुक्रदोषास्तथव च। मूत्रदोषाश्च ये केचिद् वस्तेरेव भवन्ति हि ॥” इति । अथाश्मरीशर्करयोभदमाह-एषेत्यादि। येषाश्मरी नामाभिहिता सा यदा मारुतभिन्नमूर्त्तिारुतेन पित्तपच्यमाना भिन्ना भिन्ना क्षद्रीकृता मूर्तिर्भवत्यस्याः सा तदा शर्करा नामोच्यते, मूत्रपथात् क्षरन्ती सतीति अश्मरीतोऽन्या शर्करा न त्वश्मरीग्रहणेन गृह्यते, ततः शर्कराजमूत्रकृच्छमश्मरीजमूत्रकृच्छात् पृथ मिति ।
For Private and Personal Use Only