________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३०४
चरक-संहिता। त्रिमर्मीयचिकित्सितम् क्षोभात् क्षते मूत्रयतीह सालं तस्याः सुखं मूत्रयति व्यपायात् । एषाश्मरी मारुतभिन्नमूर्तिः स्याच्छर्करा मूत्रपथात् क्षरन्ती ॥२० लग्नायामश्मयां मूत्रस्यानिर्गमनेन क्षोभात् शिश्नमध्ये क्षते सति सास्र कृच्छे । मूत्रयति । तस्या अश्मर्या व्यपायात् सुखं मूत्रयति। इति । सुश्रुते चोक्तम्"चतस्रोऽश्मयो भवन्ति श्लेष्माधिष्ठानाः। तद्यथा- इलेष्मणा वातेन पित्तेन शुक्रेण चेति। तत्रासंशोधनशीलस्यापथ्यकारिणः प्रकुपितः श्लेष्मा मूत्रसम्पृक्तोऽनुपविश्य वस्तिमश्मरीजनयति। तासां पूर्वरूपाणि वस्तिपीड़ारोचको मूत्रकृच्छ वस्तिशिरोमुष्कशेफसां वेदना कृच्छा ज्वरावसादौ वस्त गन्धित्वं मूत्रस्येति। यथास्वं वेदनावर्ण दुष्टं सान्द्रमथाविलम्। पूवरूपे ऽश्मनः कृच्छान्मूत्रं सृजति मानवः । अथ जातासु नाभिवस्तिसेवनीमेहनेष्वन्य. तमस्मिन् मेहतो वेदना मूत्रधारासङ्गः सरुधिरमूत्रता मूत्रविकिरणश्च गोमेदकप्रकाशमनाविलं ससिकतं विसृजति । धावनलङ्घनप्लवनपृष्ठयानाध्वगमनैश्वास्य वेदना भवति। तत्र श्लेष्माश्मरी श्लेष्मलमनमभ्यवहरतोऽत्यर्थमुपलिप्याधः परिद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्रोतो निरूणद्धि, तस्य मूत्रप्रतिघाताद दाल्यते भियते निस्तुद्यत इव च वस्तिगुरुः शीतश्च भवति । अश्मरी चात्र श्वेता स्निग्धा महती कुक्कु टाण्डप्रतीकाशा मधूकपुष्पवर्णा वा भवति, तां इलैष्मिकीमिति विद्यात्। पित्तयुक्तस्तु श्लेष्मा सङ्घातमुपगम्य यथोक्तां परिद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि तस्य मूत्रप्रतिघातादुष्यते चष्यते दह्यते पच्यत इव च वस्तिरुष्णवातश्च भवति। अश्मरी चात्र सरक्ता पीतावभासा कृष्णा भल्लातकास्थितिमा मधुर्णा वा भवति, तां पैत्तिकीमिति विद्यात् । वातयुक्तस्तु श्लेष्मा सङ्घातमुपगम्य यथोक्तां परिद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्रोतो निरुद्धि तस्य मूत्रप्रतीघातात् तीवा वेदना भवति तयात्यर्थ पीच्यमानी दन्तान् खादति नाभिं पीड़यति मेढ़ मृद्नाति पायु' स्पृशति विशद्धते विदहति वातमूत्रपुरीषाणि कृच्छण वारय मेहतो निःसरन्ति। अश्मरी चात्र श्यामा परुषा विषमा खरा कदम्बपुष्पवत् कण्टकाचिता भवति, तां वातिकीमिति तत्र वातेन कदम्बपुष्पाकृतिः त्रिपुटी च, पित्तनाश्मतुल्या श्लक्ष्णा, मृद्वी कपेन शुक्रेण च। क्षोभात् क्षत इति अश्मरीक्षोभात् मूत्रमार्गे बस्तौ। तस्या इत्यश्माः । व्यपायादिति मूत्रमार्गापगमात् । सुखमिति निर्वदनम् । एषेत्यादिना शर्करामाह-भिन्नमूर्तिरिति भेदितमूत्तिः अतएव मूलपथात् क्षरन्तीत्युक्तम् । तेन वातेन द्विधा विधा भिन्नाश्मरी मूतपथेन क्षरन्ती शर्करेव भवति ॥२०॥
For Private and Personal Use Only