________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः
२६श अध्यायः चिकित्सितस्थानम् ।
३३०३ विशोषयेद वस्तिगतं सशुक्र मूत्रं सपित्तं पवनः कर्फ वा। यदा तदाश्मयंपजायते तु क्रमेण पित्तेष्विव रोचना गोः॥ कदम्बपुष्पाकृतिरश्मतुल्या श्लपणा त्रिपुट्यप्यथवाऽपि मृद्वी। मूत्रस्य चेन्मार्गमुपैति रुझा मूत्रं रुजं तस्य करोति वस्तौ ॥ मृदुनाति मेद स तु वेदनात्तों मुहुः शकृन्मुश्चति वेपते च । ससेवनीमेहनवस्तिशूलं विशोर्णधारश्च करोति मूत्रम् ॥
गङ्गाधरः-अथाश्मरीजमूत्रकृच्छे वक्तव्येऽश्मरीजन्मप्रकारमाह-विशो. षयेदित्यादि। इयन्तु सम्प्राप्तिः सामान्याश्मरीणाम् । यदा पवनो रिसोमथुनविघातादमैथुनाद वा वस्तिगतं शुक्रं विशोषयेत् तदा शुक्राश्मरी जायते, यदा च वस्तिगतं मूत्रं सपित्तं विशोषयेत् तदा पित्ताश्मरी स्याद, यदा वा स्वयुक्तं वस्तिगतं कर्फ विशोषयेत् तदा वाताश्मरी स्यात्। यदा स्वयुक्तं वस्तिगतं समूत्रं कर्फ विशोषयेत् तदा कफाश्मरी स्यात् । यथा क्रमेण शुष्केषु गोः पित्तेषु रोचना भवति। इति। शुक्रजा वातजा पित्तजा कफजा चेति चतस्रो. ऽइमर्यः स्युः। तस्या रूपाण्याह । कदम्बेत्यादि । काचित् कदम्बपुष्पदलाकृतिः काचिदश्मतुल्या काचित् श्लक्ष्णा अथवा काचित् त्रिपुटी त्रिकोणा अथवा काचिन्मृद्वीति, अपिशब्दादन्याशी चाश्मरी स्यात्। तज्जमूत्रकृच्छमाहमूत्रस्य चेदित्यादि। साश्मरी चेन्मूत्रस्य मार्गमुपैति तदा तस्य वस्तौ मूत्रं रुद्धा रुजं करोति । स तु पुमान् वेदनासौ मेद मृदनाति मुहुः। शकुन्मुश्चति वेपते च मुहुः। सेवन्यादिवेदनासहितं विशीणधारं मूत्रं स करोति। शिश्ने
चक्रपाणि:-विशोषदित्यादिना चतुःप्रकारानप्यश्मरीरोगामाह । तन्त्रान्तरे अश्मय॑स्तु वातपित्तकफशुक्रजा उत्ताः, यद्यपि सर्वाइमरीषु दोषत्रयजन्यत्वमस्ति 'सहन्त्यपो यथा दिव्या मारुतोऽग्निश्च वैयतः। तद्वद् बलासं बस्तिस्थमुष्मा संहन्ति सानिलः' इति सुश्रुते प्रतिपादितम्, तथाप्येकदोषाभिप्रायेण वातजादिव्यपदेशो ज्ञेयः। वाजायामश्मयों प्रबलेन वायुना मूतशोषे क्रियमाणे तत्कृतः कफ एवाश्मरीरूपः क्रियते। एवं पित्ताश्म-मपि ज्ञेयम्। भतएव सुश्रुते श्लेष्माधिष्ठानाः सर्व एवाम्मयं उक्ताः । अश्मयुत्पादे दृष्टान्तमाह-पित्तेष्विव रोचना गोरिति । पित्तेष्विति बहुवचनं पित्तबहुस्वापेक्षया। कदम्बपुष्पाकृत्यादयो विशेषाः दोषभेदत्वेनोन्नेगः ।
For Private and Personal Use Only