________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिता |
[त्रिमम्मीयचिकित्सितम्
३३०२
पृथङ्मलाः स्वैः कुपिता निदानैः सव्र्व्वेऽथवा कोपमुपेत्य वस्तौ ।
मूत्रस्य मार्ग परिपीडयन्ति यदा तदा मूत्रयतीह कृच्छ्रात् ॥ १८ ॥ तीचा हि रुग् वङ्क्षणवस्तिमेढ्र स्वल्पं मुहुर्मूत्रयतीह वातात् । पीतं सरक्तं सरुजं सदाहं कुच्छ्रं मुहुर्मूत्रियतीह पित्तात् ॥ वस्तेः सलिङ्गस्य गुरुत्वशोथौ
100
मूत्रं सपिच्छं कफमूत्रकृच्छ्र । सर्व्वाणि रूपाणि च सन्निपातात्
Acharya Shri Kailassagarsuri Gyanmandir
भवन्ति तत् कृच्छ्रतमञ्च कृच्छ्रम् ॥ १६ ॥
4
“एषाश्मरी मारुतभिन्नमूत्तिः स्याच्छकरा मूत्रपथात् क्षरन्तीति ।” सुश्रुते "अश्मरी शर्करा चैव तुल्ये सम्भवलक्षण” रिति, ततोऽश्मरीजेन शर्कराजग्रहणमिति, तद्भ्रान्त्या व्याख्यातवान् । सुश्रुते हि - " तथाऽपरः शर्करया कष्टो सूत्रोपघातः कथितोऽष्टमस्तु ” इत्युक्तम्, अन्यथाष्टत्वव्याघातः स्यात् । इहापि तन्त्रे शर्कराजसहितान्येवाष्टौ पूर्य्यन्ते तच विना सप्त स्युरिति ॥ १७ ॥
गङ्गाधरः -- सम्प्राप्तिमाह । पृथङ्मला इत्यादि । इति चत्वारि दोषजानि ॥ १८ गङ्गाधरः – एषां लक्षणान्याह । तीव्रा हीत्यादि । इह वातजे मूत्रकृच्छ शकृत्प्रतिघातस्यावरोधः, सुश्रते हि वातप्रकोपस्तत्रोक्तः । “शकृतस्तु प्रती घाताद् वायुर्विगुणतां गतः । आध्मानञ्च सशूलश्च मूत्रसङ्गं करोति हि ।।" इति । पीतमित्यादिना पित्त मूत्रकृच्छ्रलक्षणम् । वस्तेरित्यादिना कफमूत्रकृच्छ लक्षणम् । सर्व्वाणीत्यादिना सन्निपातजमूः कृच्छ्रलक्षणमिति । सुश्रुतेऽप्युक्तम् । अल्पमल्पं समुत्पीड्य मुष्कमेहन वस्तिभिः । फलद्भिरिव कृच्छ्रेण वाताघातेन मेहति । हारिद्रमुष्णं रक्तं वा मुष्कमेहनवस्तिभिः । अग्निना दह्यमानाभैः पित्ताघातेन मेहति । स्निग्धं शुक्रमनुष्णञ्च मुष्कमेहनवस्तिभिः । संहृष्टरोमा गुरुभिः श्लेष्माघातेन मेहति । दाहशीतरुजाविष्टो नानावर्ण मुहुम् हुः । ताम्यमानः सुकृच्छ्रेण सन्निपातेन मेहति ॥ १९ ॥
चक्रपाणिः- व्यायामेत्यादिना निदानमुक्तत्वा वातपित्तकफसन्निपातजानां मूत्रकृच्छ्राणां सम्प्राप्तिमाह - पृथगित्याति । ती हि रुमित्यादिना चतुर्णां रूपमाह ॥ १७-१९॥
For Private and Personal Use Only