________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६ अध्यायः ]
चिकित्सितस्थानम् |
हृत्स्तम्भमूर्द्धामय गौरवाभ्यामुद्द्वारसङ्गेन सपीनसेन । आनाहमामप्रभवं जयेत् तु प्रच्छईनैर्लङ्घनपाचनैश्च ॥ १६ ॥ इत्युदावर्त्तः । व्यायाम तीक्ष्णौषधरूनमद्य-प्रसङ्गनित्यद्भु तपृष्ठयानात् । आनूपमांसाध्यशनाद जीर्णात् स्युर्मूत्रकृच्छ्राणि नृणां तथाष्टौ ॥१७ विघातनञ्च । स्तम्भः कटीपृष्ठपुरीषमूत्र शूलोऽथ मूर्च्छा च शक्रद्रमिश्च । श्वासश्व पकाशयजे भवन्ति लिङ्गानि चात्रालसकोदितानि ।” अलसकलक्षणानि तत्रैव यथा । “कुक्षिरानवतेऽत्यर्थं ताम्यत्यथ च कूजति । निरुद्धो मारुतश्चापि कुक्षावुपरि धावति । वातवचनिरोधश्व कुक्षौ यस्य भृशं भवेत् । तस्यालसकमाचष्टे हिक्कोद्वारौ च यस्य तु ।” इति ॥ १५ ॥
गङ्गाधरः - इह शकृज्जातानाहलक्षणं नोक्त्वा चिकित्साञ्चाभिधायामजानाहलणमाह - हृत्स्तम्भेत्यादि । हृत्स्तम्भव मूद्धि आमयगौरवञ्च ताभ्या मुहारविघातेन पीनसेन चामप्रभवमानाहं ज्ञाला प्रच्छद्देनादिभिर्जयेत् । सुश्रुते तूदावर्त्तस्यासाध्यलक्षणमुक्तम् । " तृष्णार्दितं परिक्लिष्टं क्षीणं शूलैरुपद्रतम् । शकृद् वमन्तं मतिमानुदावर्त्तिनमुत्सृजेत् ॥” इति ॥ १६ ॥
गङ्गाधरः - इत्युदावर्त्तानाह रोगों वस्तिगतावुक्त्वाऽपरान् वस्तिगतानाह । व्यायामेत्यादि । स्युमूत्रकृच्छणीति मूत्रस्य कृच्छण प्रवृत्तिविघात इत्यनर्थान्तरम् । सेन सुश्रुते मूत्राघातविकृच्छयोरिति रोगद्वयमुद्दिष्टं कृत्रा सूत्रोपघातशब्देन द्वयोरवरोधः कृतः । तद्यथा । "वातेन पित्तेन कफेन सर्वैस्तथाऽभिघातैः शकृक्कमरीभ्याम् । तथाऽपरः शर्करया सुकष्टो मूत्रोपघातः कथितोऽष्टमस्तु ॥” इति शकृत्प्रतिघातन इहोक्तः, नोक्तः शुक्रप्रतिघातज इति । इहापि निर्देशाद वातादिलक्षणानां वातजपित्तजकफजसन्निपातजाश्मरोजशर्कराजाभिघातजानि व्याहतशुक्रजञ्चात्रोक्तं शकृत्प्रतिघातजं नोक्तमिति विरोधो नाशङ्काः । सुश्रुते ह्यश्मरीज कृच्छ, शुक्रजावरोधमभिप्रेत्य शुक्रजमूत्रकुच्छ नोक्तमिह तु तन्त्रे शकृत्प्रतिघातजं वातमूत्रकृच्छ, स्वरोधान पृथगुक्तमिति यस्तु व्याख्यातवान् सुश्रुते शर्कराजमूत्रकृच्छ, न पठितमिह तु पठितम्योगेषु वक्ष्यमाणम् । हृदित्यादिना उदावर्त्तस्यैव हेतुलक्षणविशेषेण आनाहसंज्ञां प्रदर्श्य तत्र भेषजमाह || १५|१६ ॥
4
४१४
For Private and Personal Use Only
३३०१