________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३००
चरक संहिता |
[ स्त्रिममय चिकित्सितम्
हिदूप्रगन्धाविशुण्ठाजाजी - हरीतकीपुष्करमूलकुष्ठम् । यथोत्तरं भागविवृद्धमेतत् प्रीहोदराजोर्णविसूचिकासु ॥ १४ ॥ स्थिरादिवर्गस्य पुनर्नवायाः श्यामाकपूतीककरञ्जयोश्च । सिद्धः कषायो द्विपलांशिकानां प्रस्थो घृतात् स्यात् प्रतिबन्धवाते । फलञ्च मूलञ्च विरेचनोक्तं हिंस्रार्कमूले दशमूलमग्राम् । स्नुक चित्रकश्चैव पुनर्नवा च तुल्यानि सव्वैर्लवणानि पञ्च ॥ स्नेहः समृत्रैः सह जर्जराणि शरावसन्धौ विपचेत् सुलिप्ते । पक्वं सुपिष्टं लवणं तदन्नैः पानैस्तथानाहरु जान्नमद्यात् ॥ १५ ॥ रसौदनाशी खानाहादीन् जयेत् । हिङ्गग्रेत्यादि । हिङमभृतिकं यथोत्तरं भागवृद्धं पुष्करं स्वनामख्यातवृक्षविशेषस्तस्य मूलं तदभावे कुष्ठमपि द्विवरं ग्राह्यम् ॥ १४ ॥
'गङ्गाधरः- स्थिरादीत्यादि । स्थिरादिवर्गः शालपर्ण्यादिपञ्चमूली । द्विपांशिकानां शालपर्ण्यादीनामष्टानां षोड़शशरावजले पकानां चतुर्थांशावशिष्टः कषायः प्रस्थः, प्रस्थश्च घृतात् सिद्धः पकः प्रतिबन्धवाते हितः स्यात् । फलश्च ेत्यादि । विरेचनोक्तं फलिनीमूलिनीषु विरेचनोक्तं फलश्च मूलश्च हिंसामूलमर्कमूलश्च । पुनने वान्तानि यावन्ति तैः सर्व्वस्तुल्यानि पञ्च लवणानि । स्नेहश्चतुर्भिर्यथालाभं मूत्रैश्च यथालाभं सह जर्जरीकृतानि कुट्टयित्वैव शरावमध्ये स्थापयित्वाऽन्येन शरावेण पिधाय सन्धौ सुलिप्ते धमनिगमाभावो यथा स्यात् तथा सुलिप्ते विपचेत् । पक्कं सुपिष्टं तल्लवणं पानैरन्नः सहाद्यात् । आनाहलक्षणमुक्तं सुश्रते - " आमं शकुद वा निचितं क्रोण भूयो विबद्धं विगुणानिलेन । प्रवत्तेमानं न यथास्वमेनं विकारमानाहमुदाहरन्ति । तस्मिन् भवत्यामसमुद्भवे तु तृष्णामतिश्यायशिरो विदाहाः । आमाशये शूलमथो गुरुत्वं हल्लास उद्गार -
Acharya Shri Kailassagarsuri Gyanmandir
सप्तदिनान्यवश्यम् । शुद्धो निरूहेण विरेचनन्चे 'ति । द्विरुत्तरमित्यादौ यथोत्तरद्रव्याणां द्वैगुण्यम् । सुवर्चिका स्वर्जिकाक्षारः । सुखाम्बुना पीतमिति शेषः । उग्रगन्धा अजमोदा ॥ ९-१४ ॥
चक्रपाणिः - स्थिरादिवर्गस्येति अल्पपञ्चमूलस्य । श्यामाकपूतिककर अयोश्चेत्यस पूतिकशब्दः करवविशेषणम् । तथाहि जतूकर्णः - " सर्षप उग्रपूतिकः पुनर्नवा स्थिराद्यमित्यादि ।” फलच मूल विरेचनोक्तमिति दोर्घञ्जीवितीये मूलिनीविरेचनकर्म्मण्युक्तम् । किंवा कल्पे विरेचन
For Private and Personal Use Only