________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः
२६श अध्यायः ] चिकित्सितस्थानम्। ३२६६ त्रिवृत्सुधापनतिलादिशाक-ग्राम्योदकानूपरसैर्यवान्नम् । अन्यैश्च सृष्टानिलमूत्रविड़ भिरद्यात् प्रसन्नायुड़सीधुपायी ॥ भूयोऽनुबन्धे तु भवेद विरेच्यो मूत्रप्रसन्नादधिमण्डशुक्तः । * - स्वस्थन्तु पश्चादनुवासयेत् तं ।
रौक्ष्याद्धि सङ्गोऽनिलवर्चसोः स्यात् ॥ १०-१३॥ हिरुत्तरं हिनु वचा सकृष्णा सुवर्चिका चैव विङ्गचूर्णम् । सुखाम्बुनानाहविसूचिकार्ति-हृद्रोगगुल्मो समीरणनम् ।। वचाभयाचित्रकयावशूकान् सपिथलोन् सातिविषान् सकुष्ठान् । कोष्णाम्बुनानाहविमूढ़वातान् पीत्वा जयेदाशु रसौदनाशी ॥
गङ्गाधरः-आहारद्रव्यमाह। त्रिदित्यादि। त्रिवृत्पत्रादिशाकं ग्राम्यादि मांसरसः। अन्ये च सृष्टानिलादयः, तैर्यवान्नमद्यात्। प्रसन्नादिकश्चानु पिबेत् । एवंकृते यद्यनुबन्धो वर्तते सत्राह। भुय इत्यादि। एषंकृतेऽपि भूयोऽनुबन्धे सति मूत्रादिभिर्विरेच्यः। तथा विरेचनन स्वस्थं तमुदावर्त्तिनं पक्षदनुवासयेत् स्नेहनार्थम् । कस्मात् ? रोक्ष्याद्धीत्यादि । हि यस्मात् रोक्ष्यात् पुनरनिलवर्च सोः सङ्गः स्यात् तस्मादनुवासयेत् ॥१०-१३॥
गङ्गाधरः-अथात्र वेगसन्धारणादिनाप्यानाहः स्यात्, तस्य च चिकित्सामाह-द्विरुत्तरमित्यादि। हिमभृतीनामुत्तरोत्तरं द्विगुणं चूर्ण सुखाम्बुना पीतमानाहादिनम्। वचेत्यादि। वचादिकुष्ठान्तं चूर्ण कोष्णाम्बुना पीखा
ज्ञेयौ । प्रसन्ना मद्योपरि स्वच्छो भागः । गुड कृतः सीधुः गुडसीधुः। मूयोऽनुबन्ध इति उदावत्तानु. बन्धे । एतच्च विरेचनं वस्तिदानञ्च सप्ताहादूईम्। यदुक्तं 'नरो विरिक्तस्तु निरूहदानं विवर्जयेत्
• इतः परं क्वचिदधिकः पाठो दृश्यते। यथा-गुल्मोदरबध्नाशःप्लीहोदावर्त्तयोनिशुक्रगदे। मेदःकफसंसृष्ट मारुतरक्तेऽवगाढ़े च॥ गृध्रसीपक्षबधादिषु विरेचनाहषु वातरोगेषु। वाते विबदमाग मेदःकफपित्तरक्तेन ॥ पयसा मासरसैर्वा त्रिफलारसयूषमूत. मदिराभिः ॥ ११॥ दोषानुबन्धयोगात् प्रशस्तमेरण्डजं तैलम्। तवाातनुत् स्वभावात् संयोगवशाद् विरेचनाच्च जयेत् ॥ मेदोऽसृकपित्तकफोन्मिश्रानिलरोगजित् स्यात् । बलकोष्ठन्याधिवशादापञ्चपला भवेन्मात्रा। मृदकोष्ठबलानां सह भोज्यं तत् प्रयोज्यं स्यात् ॥ १२ ॥
For Private and Personal Use Only