________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२६८
चरक-संहिता। त्रिमर्मीयचिकित्सितम श्यामाफलेक्ष्वाकु सपिप्पलीकं नाड्याथवा तत् प्रधमेत चूर्णम्। रक्षोनतुम्थीकरहाटकृष्णा-चूर्ण सजीमूतकसैन्धवं वा। स्निग्धे गुदे तान्यनुलोमयन्ति नरस्य वच्चोंऽनिलमूत्रसङ्गम् ॥८॥
तेषां विघातेषु भिषग् विदध्यात् खभ्यक्तसुखिन्नतनोनिरूहम् । ऊटनुलोमौषधमूत्रतैलक्षाराम्लवातनयुतं सुतीक्ष्णम् ॥ वातेऽधिकेऽम्लं लवणं सतैलं क्षीरेण पित्ते तु कफे समूत्रम्। समूत्रवर्धोऽनिलसङ्गमाशु
गुदं सिराश्च प्रगुणीकरोति ॥६॥ . गङ्गाधरः-श्यामेत्यादि। श्यामा श्याममूला त्रिवत् । फलं मदनफलम् । श्यामादीनां चूर्ण नाड्या नलिकायां निक्षिप्य नलिकानगुदे प्रवेश्य फुत्कारेण जठरे प्रवेशयेदित्येवं प्रधमेत् । रक्षोघ्नेत्यादि । अथवा रक्षोनः सपः। सर्वपादि. चूर्ण नाड्या प्रधमेत् । वर्तिचूर्णानां प्रदानक्रमफले आह-स्निग्धे इत्यादि। घृतादिस्तेहेनाभ्यक्ते गुदे तानि वर्तिचूर्णानि ॥८॥ - गङ्गाधरः-यदेशवं वर्तिचूर्णप्रयोगे प्रशमनं न स्यात् तत्राह-तेषामित्यादि । तेषां वर्तिचूर्णानां विधातेषु स्वभ्यक्तमुस्विन्नतनोस्तस्योदावर्त्तिनो निरुद्ध विदध्यात् । निरूहन्तू नुलोमौषधादियुतं सुतीक्ष्णम्। बाते इत्यादि। वाते अधिकेऽम्ललवणतैलं निरूह, पित्तेऽधिके क्षीरेण निरूहम्, अथ कफेऽधिके समूत्रमानुलोमिककफघ्नद्रव्यकृतं विदध्यात्। स निरूहो मूत्रादिसङ्गं गुदं सिराश्च प्रगुणीकरोति। विगुणभावाभावः प्रगुण इति ॥९॥ तावन्मानो गुडो देयः। यावशूकैरित्यन्तेन द्वितीया वतिः माषगुडनैव कर्त्तव्या। शशिनी श्वेतबुन्दा, वेश्मधूमोऽगारधूमः, फलं मदनफलम्, रक्षोनः सर्षपः, करहाटो मदनः ॥८॥
चक्रपाणिः-तेषां विधात इति फलवर्तिपूर्णानामुक्तानो कार्याकरणे ऊर्दाऽनुलोमौषधं वमनविरेचनौषधम् । वातेऽधिक इत्यादिना दोषभेडेन साधनमाह। उदावत्त पित्तकफौ वातकोपितावेव
For Private and Personal Use Only