________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः }
चिकित्सितस्थानम् ।
३२६७
तं तैलशीतज्वरनाशनाक्तं स्वेदैर्यथोक्तः प्रविलीनदोषम् । उपाचरेद्वर्त्तिनिरूहवस्ति - स्नेह विरेकरनुलोमनान्नैः ॥ ६ ॥ श्यामात्रिवृन्मागधिकां सदन्तीं गोमूत्रपिष्टां दशमाषभागाम् । सनीलिकां द्विलवणां गुड़ेन वर्त्ति कराङ्गष्ठनिभां विदध्यात् ॥ पिण्याकसौवच्चल हिगुभिर्वा ससर्पपत्र पायावशूकैः । क्रिमिघ्नकम्पिल्लकशङ्खिनोभिः सुधार्कजचीरगुड़े येताभिः । स्यात् पिप्पलीसर्षपराठवेश्म - धूमैः सगोमूत्र गुड़ च वत्तिः ॥ ७ ॥
गङ्गाधरः - पुनरिह कषायादिसर्व्वहेतु जोदावर्त्त चिकित्सामाह - तमित्यादि । तमुदावर्त्तिनं नरं तैलमिश्रितेन शीतज्वरनाशनागुर्व्वादितैलेनाक्तं यथोक्तस्वेदैः प्रविलीनदोषं वत्र्यादिभिरुपाचरेत् ॥ ६ ॥
गङ्गाधरः- तत्र वर्त्तिमाह श्यामेत्यादि । श्यामा त्रिवृतादीनां प्रत्येकं कामाषान् द्विलवणां द्विगुणितसैन्धवान् गोमूत्रेण श्लक्ष्णं पिष्ट्वा गुड़न यथार्हेण पिष्ट्रा कराडष्ठनिभां वर्त्तिं विदध्यात्। तां वर्त्ति घृताक्तां घृताते गुदे यथायोग्यं प्रवेशयेदिति । अथवा पिण्याकादियावशुकान्तेगु देन वर्त्त विदध्यादिति पूर्वेणान्वयः । क्रिमिघ्नेत्यादि । क्रिमिनो विहङ्गः । सुधा स्नुही, सुधार्कजक्षीरं सुधाक्षीरमर्क क्षीरच्चेति क्रिमिघ्नादिगुड़ान्तैरेका वर्त्तिः स्यात् । अथवा पिप्पल्यादिगुड़ान्तैश्च वर्त्तिः स्यात् । अत्र राठो
मदनफलतण्डुलः ॥ ७॥
यथा मन एव मनोनिग्रहं करोति । उक्तं 'इन्द्रियाभिग्रहः कर्म मनसस्त्वस्य निग्रहः' इति । ऊर्द्धश्चेति ऊर्द्ध गमनस्वभावः । तलं ज्वरनाशनोक्तमिति शीतज्वरनाशनम गुर्व्वादुक्तम् । वर्त्तिः फलवर्त्तिः ॥ ३–६॥
चक्रपाणिः - श्यामेत्यादि । फलवत्तौ श्यामा त्रिवृद्भेदः । दश भागा भाषा यस्यां सा दशभागमाषा । द्विर्लवणेति द्विर्भागलवणा । गुडेनेति वचनेन यावता गुडन वर्त्तिः कर्त्तुं युज्यते
For Private and Personal Use Only