________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२६६
चरक-संहिता। त्रिमर्मीयचिकित्सितम् कषायतिक्तोषणरूक्षभाज्यः सन्धारणोदोरणमथुनैश्च । पक्काशये कुप्यति चेदपानः स्रोतांस्यधोगानि बली स रुद्धा ॥ करोति विण्मारुतमूत्रसङ्ग क्रमादुदावर्त्तमतश्च घोरम् ॥३॥ रुग् वस्तिहृत्कुत्युदरेष्वभीषणं सपृष्ठपाश्र्वेष्वतिदारुणा स्यात्॥ आध्मानहल्लासविकर्तिकाश्च तोदोऽविपाकश्च सवस्तिशोफः ।
वर्ची प्रवृत्तिर्जठरे च गण्डो ह्यू ईश्च वायौ विहते गुदे स्यात् । कृच्छ्रेण शुष्कस्य चिरात् प्रवृत्तिः
स्याद् वा तनुः सा खररूक्षशीता ॥४॥ ततश्च रोगा ज्वरमूप्रकृच्छ्र-प्रवाहिकाहृदग्रहणीप्रदोषाः। छान्ध्यवाधिर्यशिरोभितापा वातोदराष्ठीलमनोविकाराः॥ तृष्णास्त्रपित्तार्दितगुल्मकास-श्वासप्रतिश्यारुचिपावरोगाः। अन्ये च रोगा बहवोऽनिलोत्था भवन्त्युदावतकृताः सुघोराः। चिकित्सितश्चास्य यथावदूद्ध प्रवक्ष्यते तच्छृण चाग्निवेश ॥५॥ - गङ्गाधरर-कषायेत्यादि। कषायादिभिहेतुभिरपानवायुर्यदि पकाशये कुप्यति, तदा बली सोऽपानः खल्वधोगानि स्रोतांसि रुद्धा विड़ादिसङ्गं करोति ततः क्रमाद विड़ादिसङ्गाद घोरमुदावः करोति ॥३॥
गङ्गाधरः-तदुदावर्त्तलक्षणमाह-रुगित्यादि। वस्त्यादिष्वभीक्ष्णमतिदारुणा रुक स्यात् । विकर्तिका गुदे कर्त्तनवत् पीड़ा। जठरे बचोप्रवृत्तिः स्यात्। वायावूद्ध विहते गुदे गण्डः स्यात् । शुष्कस्य वर्चसः कृच्छण चिरात् प्रवृत्तिः, सा प्रवृत्तिस्तनुरल्पा स्यात् खररूक्षशीता च॥४॥
गङ्गाधरः-ततो वर्चस एवं प्रवृत्तितः ज्वरादयो रोगा भवन्ति । अन्ये चानिलोत्था बहवो रोगा उदावत्तकृता भवन्ति। इति। तस्य नवेगान्धारणीये वेगसन्धारणजरोगचिकित्सा विशेषेणोक्ता ॥५॥ ___चक्रपाणिः-वस्त्यादिजानां यथाक्रमं हेत्वादिमाह-कषायेत्यादि। अषणः कटकः । पक्वाशय इत्यादिना उदावर्तसम्प्राप्तिलिङ्गचिकित्सितानि प्राह। ननु कथमपानः कुपितः अपानस्यैव रोतीति ? ब्रमः। आत्मनवायं दृष्टः सम्यगप्रवर्त्तमानः आत्मनः सङ्गनोति ।
For Private and Personal Use Only