________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षड़ विंशोऽध्यायः। अथातस्त्रिमर्मीयचिकित्सितं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥ १॥
सप्तोत्तरं मर्मशतं यदुक्तं शरीरसङ्ख्यामधिकृत्य तेभ्यः। माणि वस्तिं हृदयं शिरश्च प्रधानभूतानृाषयो वदन्ति ॥ प्राणाशयात् तानि हि पीड़यन्तो वातादयोऽसूनपि पीडयन्ति । तत्संश्रितानामनुपालनार्थ महागदानां शृणु सौम्य रक्षाम् ॥२॥
गङ्गाधरः-अथोद्दिष्टानुक्रमात् त्रिमर्मीयचिकित्सितमाह-अथात इत्यादि। सर्व पूर्ववद् व्याख्येयम् ॥१॥
गङ्गाधरः-सप्तोत्तरमित्यादि। शरीरसङ्ख्याशारीरे सप्तोत्तरं मर्मशतमिति यदुक्तं तेभ्यस्त्रीणि मर्माणि प्रधानभूताषयो वदन्ति वस्तिञ्च हृदयञ्च शिरश्चेति । कस्मात् प्रधानभूतानि ? प्राणाशयात् । प्राणानामाशया हि वस्त्यादयः प्रधानतमा इति। तानि वस्तिहृदयशिरांसि पीड़यन्तो वातादयोऽसूनपि पीड़यन्ति। तस्मात् ततोऽनुपालनार्थ प्राणरक्षणार्थ तत्तिमम्मेसंश्रितानां महागदानां सम्बन्धे रक्षा सौम्य शृणु ॥२॥
चक्रपाणि:-द्विवणीये द्विसंख्यावच्छिन्नरोगचिकित्साभिधानानन्तरं द्विसंख्यावच्छिन्नशिरोहृदयवस्तिचिकित्साभिधानार्थ सिमर्मीयचिकित्सोच्यते। त्रिमर्मीयेण हि विमम्माश्रिता रोगा अभिधीयन्ते। तेन त्रिमीयरोगानधिकृत्य कृतं चिकित्सितं विमर्मीयचिकित्सितमवधारयति सप्तोत्तरमित्यादि। शरीरसंख्यामधिकृत्येति शरीरसङ्ख्याशारीरे उत्तमधिकृत्येत्यर्थः । हृदयादिमर्मप्राधान्ये हेतुमाह-प्राणाश्रमानिति । हृदयादीनां प्राणाश्रयत्वे उपपत्तिमाहतानिति। हृदयायपघातेन यस्माद् विशेषतः प्राणोपघातो भवति तस्मात् हृदयायाश्रिताः प्राणा उच्यन्ते । यथा भित्युपघातोपहन्यमानं चित्र भिच्याश्रयमुच्यते। तत्संश्रितानामिति प्राणाश्रयाणां हृदयादीनां महान्तो गदा येषां भवन्ति तेषां महागदानां वस्त्यादीनां रक्षा शृणु किंवा तत्संश्रितानामिति वस्त्यादिसंश्रितानां महागदानां रक्षामिति चिकित्साम् ॥ १॥२॥
For Private and Personal Use Only