________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५ अध्यायः ]
चिकित्सितस्थानम्
।
द्विपञ्चमूलोत्कथितेनाम्भसा मस्तुनाथवा सर्पिषा वा सतैलेन कोष्णेन परिषेचयेत् ॥ ३३ ॥ यत्रचूर्ण समधुकं सतिलं सह सर्पिषा । दद्यादालेपनं कोण दाहशूलोपशान्तये ॥ ३४ ॥ उपमाहश्च कर्त्तव्यः सतिलो मुद्गपायसः । रुग्दाहयोः प्रशमनो व्रणेष्वेवं विधिः स्मृतः ॥ ३५ ॥ सूक्ष्मानना बहुस्रावाः कोषवन्तश्च ये व्रणाः । न च मम्र्म्मस्थितास्तेषामेषणं हितमुच्यते ॥ द्विविधामेषां विद्यान्मृद्वोश्च कठिनामपि । मृदुभिर्नाललोंहानां वा शलाकया ॥ गम्भीरं मांसले देशे पाठ्य लोहशलाकया । एवंविधाद् व्रणं नालैर्विपरीतमतो भिषक् ॥ ३६ ॥
1
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
३२८७
गङ्गाधरः - द्विपञ्चेत्यादि । सदाहादिवातोत्तत्रणान् दशमूलकायेन मस्तुना वा कोष्णेन सतैळसर्पिषा वा परिषेचयेत् ॥ ३३ ॥
गङ्गाधरः- पवचूर्णमित्यादि । सतिलं कृष्णतिलम् । श्रीणि समानानि जलेन पिष्ट्वा घृतेन मिश्रयिला मलेपनम् ॥ ३४ ॥
गङ्गाधरः- उपनाह इत्यादि । कृष्णतिलान मुद्रांश्च समानान् दुग्धेन पक्त्वा प्रायसः कृतः प्रलेपाद् रुग्दाहप्रशमन इत्येवं विधिः प्रशमनः स्मृतः ॥ ३५ ॥
गङ्गाधरः - इति शमनमुक्त्वा शोधनादीनि वक्तुं तद्विषयमाह - सूक्ष्मानना इत्यादि । कोषवन्तोऽभ्यन्तरे मांसादिशून्याः नाड़ीवद्गतिमन्तः । न च मस्थिता मर्मस्थानजान् विहाय ये तेषामेषणं हितम् । कथमेषणं स्यादिस्पत आह- द्विविधमित्यादि । मृद्दीमेषणां कठिनाञ्च विद्यात्। कैमुद्री कैथ कठिना स्यात् ? औद्भिदैमृदुभिर्नालमृद्वी एषणा । लोहानां शलाकया कठिनैषणा । तयोर्विषयमाह – गम्भीरमित्यादि । वैषयमाह – गम्भीरमित्यादि । गम्भीरं मांसले देखे स्नेहशर्करेति व्यपदेशात् । द्विपञ्चमूलक्कथितेनेति अम्भसा पयसा सर्पिःस्वैले योजनीये इति ।
• पयसाथवेति चक्रसम्मतः पाठः ।