________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२८८
चरक-संहिता। द्विवणीयचिकित्सितम् पूतिगन्धान् विवर्णाश्च बहुस्रावान् महारुजः। वणानशुद्धान् विज्ञाय शोधनैः समुपाचरेत् ॥ त्रिफला खदिरो दार्जी न्यग्रोधादिर्बला कुशाः। निम्बकूलकपत्राणि कषायाः शोधने हिताः॥ तिलकल्कः सलवणो द्वे हरिद्र त्रिवृद् घृतम् । मधुकं निम्बपत्राणि लेपः स्याद् व्रणशोधनः ॥ ३७॥ नातिरक्तो नातिपाण्डु तिश्यावो न चातिरुक् । न चोत्सङ्गो न चोत्सङ्गी शुद्धो रोप्यः परं व्रणः॥ न्यग्रोधोडुम्बराश्वत्थ-कदम्बप्लक्षवेतसाः। करवीराकुटजाः कषाया व्रणरोपणाः ॥ चन्दनं पद्मकिञ्जल्कं दार्चीत्वङ् नोलमुत्पलम् ।
मेदे मूळ समझा च यष्ट्याह्नव्रणरोपणम् ॥ लोहशलाकयान्वेष्य पाट्यम् । एवंविधाद् गम्भीरान्मांसलदेशाद् विपरीतमगम्भीरममांसले देशे व्रणं नालैरन्वेष्य पाटयेत् ॥३६॥
गङ्गाधरः-तत्र शोधनार्हानाह। पूतिगन्धानित्यादि। पूतिगन्धादीन् व्रणान् खल्वशुद्धान विज्ञाय शोधनः समुपाचरेत् । शोधनयोगानाह। त्रिफळेत्यादि । न्यग्रोधादिः पूर्वमुक्तः। एषां कषायेण व्रणं धोतं कुप्यात् । शोधनलेपमाह । तिलेत्यादि । तित्यादयोऽष्टौ ह्यको लेपो मिलिखा। तिलाष्टकः॥३७ - गङ्गाधरः-शोधनकषायलेपावुक्त्वा रोपणकषायलेपावाह। तद्विषयमाहनाहीत्यादि। उत्सङ्गो व्रणस्थाने चेन्न वत्त ते, व्रणश्च चतुर्दिक्षु च नोदसनवान् चेन स्यात्, तदा शुद्धो व्रण इति शाखा स व्रणो रोप्यः। रोपणकषाय. माह-न्यग्रोधेत्यादि। न्यग्रोधादिनामेषां कषायेण व्रणधोतं कुर्य्याद्रोपणार्थमिति । रोपणप्रलेपनमाह-चन्दनमित्यादि। चन्दनादिभिलपनं व्रणरोपणम् । द्विविधामिति भौनिदैम दुभिर्नालैः मृद्वी लौहशलाकया कठिनाम् । पाठ्यमिति एषणीयम् । निम्ब एव वृद्धनिम्ब उच्यते। किंवा कूलकेति पाठः। कूलकः पटोलः ॥३०-३७॥
चक्रपाणिः-नातिरक्त इत्यादिना शुव्रणलक्षणमभिधाय रोपणमाह-न्यग्रोधेत्यादि।
For Private and Personal Use Only