________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.३२८६
चरक-संहिता। [द्विवणीयचिकित्सितम् शुष्का महारुजः स्तब्धा ये व्रणा मारुतोत्तराः । स्वेद्याः शङ्करकल्पेन ते स्युः कृशरपायसैः॥ ग्राम्यवैलाम्बुजानूपैवेशवारैः सुसंस्कृतैः। उत्कारिकाभिश्चोष्णाभिः सुखो स्याद् व्रणितस्तथा ॥३१॥ सदाहा वेदनावन्तो ये व्रणा मारुतोत्तराः। तेषां तिलानुमाञ्चैव भृष्टान् पयसि निर्वृतान् । तेनैव पयसा पिष्टा दद्यादालेपनं बुधः॥ बला गुडूची मधुकं पृश्निपर्णी शतावरी । जीवन्ती शर्करा क्षीरं तैलं मत्स्यवसा घृतम् । संसिद्धा समधूच्छिष्टा शूलनी स्नेहशर्करा ॥ ३१॥
गङ्गाधरः-इसि सन्धानमुक्त्वा स्वेदमाह। शुष्का इत्यादि। शुष्कादयो मारुतोत्तरा ये व्रणास्ते शङ्करस्वेदकल्पेन स्वेद्याः स्युः, कैः ? कुशरपायसैः कुशरैस्तिलकल्कैः पायसैश्च। ग्राम्यादिमांसः वेशवारीकृतैर्वा स्वेद्याः। तथा उष्णामिरुत्कारिकाभिर्यवादीनां स्वेद्याः स्युः, तथा सति व्रणितः मुखी स्यात् ॥ ३१ ॥
गङ्गाधरः-इति स्वेदमुक्त्वा व्रणानां शमनलेपनमाह। सदाहा इत्यादि। सदाहादिवातोत्तरव्रणेषु भृष्टांस्तिलानुमाश्च भृष्टां पयसि क्षिप्ता शीतीकृत्य तेनैव पयसा पिष्ट्वा लेपनं व्रणेषु दद्यात्। दाहादिशान्तिर्भवति । षलेत्यादि। क्षीरं गव्यम्, तैलं तिलस्य । मत्स्यवसा रोहितादिमत्स्यतैलम् । घृतं गव्यम् । सलमत्स्यवसाघृतानि समानानि मिलितानां पादिकं कल्कं बलादीनां सीरं चतुर्गुणं पत्वा वस्त्रेण पूला तस्मिन् स्नेहे उष्णे सति मधृच्छिष्टमष्टमांशं शर्करा तत्समां प्रक्षिपेदियं संसिद्धा स्नेह शर्करा व्रणशुलनी प्रलेपनात् । स्नेहशर्करेति वचनादत्र पक्षप्या शर्करा मधूच्छिष्टं मिलिखा पादिकमिति ॥३॥ दिति विसविचिकित्सितात् । बला गुढ़ चीत्यादि। अत बलादीनि पिष्टानि तथा शर्करा क्षीरमधूष्छिष्टतैलादिभिः उत्कारिकां कृत्वा, अन्ये तु बलादिकल्केन तलादिस्नेहं चतुर्गुणं सायित्वा स्नेहपानादिकं मधूच्छिष्टप्रक्षेपं प्राहुः। स्नेहस्था संहतावस्थितत्वात् मधुशर्करावत
For Private and Personal Use Only