________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्यायः ]
चिकित्सितस्थानम् ।
पाटनं व्यधनञ्चैव छेदनं लेखनन्तथा । प्रच्छनं सीवनञ्चैव षड़ विधं शस्त्रकर्म्म सत् ॥ नाडीव्रणाः पक्कशोथास्तथा चतगुदोदरम् । अन्तःशल्याश्च ये शोफाः पाटयास्तै तद्विधाश्च ये ॥ दकोदराणि सम्पका गुल्मा ये ये च रक्तजाः । व्यध्याः शोणितरोगाश्च विसर्पपिड़कादयः ॥ अर्शःप्रभृत्यधीमांसं छेदनेनोपपादयेत् ॥ तवृत्तान् स्थूलपर्य्यन्तानुत्सन्नान् कठिनान् ब्रणान् । किलासानि सकुष्ठानि लिखेल्लेख्यानि बुद्धिमान् ॥ वातासृग्ग्रन्थिपिकाः सकोठा रक्तमण्डलाः । कुष्ठान्यभिहतञ्चाङ्गं शोफांश्च प्रच्छयेद् भिषक् ॥ कुच्युदरादिकं सीव्यं गम्भीरं यद् विपाटितम् । इति षड़ विधमुद्दिष्टं शस्त्रकर्म्म मनीषिभिः ॥ २४ ॥ गङ्गाधरः-- इत्येकं शस्त्रमुक्त्वा शस्त्रकर्माण्याह - पाटनमित्यादि । पाटनादिकं पड़ विधं शस्त्रकर्म्म सत् साधु भवति । तत्र पाटनक्रियाहनाह । नाड़ीत्रणा इत्यादि । क्षतगुदोदरं तद्विधा येऽन्ये शोफास्ते पाट्या ज्ञेयाः । व्यथार्हानाह । दकोदराणीत्यादि । सम्पक्का गुल्मा ये ये वा रक्तगुल्माः शोणितरोगाश्च विसर्पादयो व्यध्याः । छेद्यानाह । अर्श इत्यादि । अर्शःप्रभृतीनि प्रभृतिशब्देनाल्प: मूला दादीनि । लेख्यानाह । तद्वृत्तानित्यादि । अर्शःप्रभृतीन् वृत्तान् वर्त्त' लान स्थूलपर्य्यन्तानुत्सन्नान् उच्चैतान् कठिनान् व्रणांच किलासादीनि च लेखनेन तीक्ष्णशस्त्राग्रेण किञ्चित् किञ्चिद विदरणेनोपपादयेत् । प्रच्छनमाह । वाताटगित्यादि । अभिदत्तमनिर्ग तरक्तमङ्गं प्रच्छयेत् । पाठीनमत्स्यदन्तादिना किश्चिद् विध्येत् । सीवनमाह । कुक्ष्युदरादिकं यद् गम्भीरं विपाटयते तत् पुनः सीन्यं स्यात् । इति षड़ विधं शस्त्रकर्म्म ॥ २४ ॥
For Private and Personal Use Only
३२८३
चक्रपाणिः - पाटनमित्यादिना प्रोक्त पड़ विधशस्त्रकर्म्मणि एषणीशस्त्रशस्त्रोक्तकर्माविरोधोऽत्र बोद्धव्यः । पाटनादीनां पृथगविषयमाह - नाडीव्रणा इत्यादि । सम्पक्का गुल्मा ये ते व्यध्याः । तथा रक्तजा इति रक्तगुल्मा: विधिशोणितीयोक्ताः विसर्पादयः व्यध्याः स्त्राव्यसिराव्यध्याः ।