________________
Shri Mahavir Jain Aradhana Kendra
३२८४
www.kobatirth.org
चरक संहिता |
-
Acharya Shri Kailassagarsuri Gyanmandir
[ द्विवणीय चिकित्सितम्
सूक्ष्माननाः कोषवन्तो ये व्रणास्तान् प्रपीडयेत् ॥ कलायाश्च मसूराश्च गोधूमाः सहरेणवः । कल्कीकृताः प्रशस्यन्ते निःस्नेहा ब्रणपीड़ने ॥ २५ ॥ शाल्मलीत्वग्बलामूलं तथा न्यग्रोधपल्लवाः । न्यग्रोधादिकमुद्दिष्टं बलादिकमथापि वा ॥
लेपनं निर्वापणं तद्विधान्यैश्च सेचनम् । सर्पिषा शतधौतेन पयसा मधुकाम्बुना ॥ निर्वापयेत् तु शीतेन रक्तपित्तोत्तरान् व्रणान् ॥ २६ ॥ लम्बानि व्रणमांसानि प्रलिप्य मधुसर्पिषा । सन्दधीत समं वैद्यो बन्धनैश्चोपपादयेत् ॥ तान् मांससंस्थितान् ज्ञात्वा फलिनीलोधकट्फलैः । समङ्गाधातकीयुक्तश्चूर्णितैरवचूर्णयेत् ॥
For Private and Personal Use Only
गङ्गाधरः- अथ प्रपीड़नमाह - सूक्ष्मानना इत्यादि । सूक्ष्माननादीन् व्रणान् प्रपीडयेत् | कैरित्यतः प्रपीड़नद्रव्यमाह । कलाय इत्यादि। कलायो त्रिपुटकला । हरेणवश्चातिवतु लकलायाः । निःस्नेहा घृतादिरहिता रूक्षा एव ।। २५ ॥
गङ्गाधरः- शाल्मली गित्यादि । शाल्मलीलम् च बलामूलश्च न्यग्रोधपल्लवाश्चेति । एवं पूर्व्वमुद्दिष्टं न्यग्रोधादिकं न्यग्रोधोदुम्बरेत्यादिना, बलादिकं वा बलागुड़ चीत्यादिना वक्ष्यमाणं तद्विधैरन्यैर्वा सेचमम् । शतधौतसर्पिषा केवलेन पयसा मधुकाम्बुना वा सेचनम् ॥ २६ ॥
गङ्गाधरः- निर्वापणमुत्वा सन्धानमाह-लम्बानीत्यादि । छेदादितो मांसानि यानि लम्बन्ते तानि सन्दधीत मधुसर्पिषा प्रलिप्य बन्धनैश्च उपपादयेत् । ततो लम्बमानानि मांसानि संस्थितान् व्रणांस्तान् ज्ञाता लेख्यानीति लेखनावस्थां प्राप्तानि । व्रणपीड़न इति व्रणपीड़नश्च लेपो निःस्नेहः व्रणमुखं वर्जयित्वा कर्त्तव्यः ॥ २४ ॥ २५ ॥
चक्रपाणिः - मयभोधादिकमिति । न्यग्रोधोदुम्बराश्वत्थेत्यादिनोक्तम् । अत्रैव बलादिकं