________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२८२
चरक-संहिता। विव्रणीयचिकित्सितम् तैलेन सर्पिषा वापि ताभ्यां वा सक्तुपिण्डिका। सुखोष्णा शोथपाकार्थमुपनाहः प्रशस्यते ॥ सतिला सातसीवीजा दध्नाम्ला सक्तुपिण्डिका। सकिण्वकुष्ठलवणा शस्ता समुपनाहने ॥ २२॥ रुग्दाहरागतोदश्च विदग्धं शोफमादिशेत् । जलवस्तिसमस्पर्श सुपक्वं पीड़ितोन्नतम् ॥ उमाथ गुग्गुलुः सौधं पयो दक्षकपोतयोः । विट् पलाशभवः क्षारो हेमक्षीरी मुकूलकः ॥ इत्युक्तो भेषजगणः पक्कशोथप्रभेदनः।
सुकुमारस्य कृष्टस्य शस्त्रन्तु परमुच्यते ॥ २३ ॥ कृखा पाटनं हितं कुर्य्यात्। पाकार्थमाह-तैलेनेत्यादि। यवादिसक्तून् जलेन पक्त्वा तिलतैलेन घृतेन वा तैलघृताभ्यां वा मेलयिता कृता पिण्डिका सुखोष्णा व्रणशोफे उपनाहो देयः पाकाथ प्रशस्यते। सतिलेत्यादि। कृष्णतिलातसी सुराकिण्वकुष्ठसैन्धवयुक्ता यवादिसक्तुपिण्डिका दनाम्लेनाम्ला सम्यगुपनाहने व्रणशोथपाकाथ शस्ता ॥२२॥
गङ्गाधरः-रुगित्यादि। यदा व्रणशोफे रुक च दाहश्च रागश्च तोदश्च पिपी. लिकादिदंशादिवत् तदा शोर्फ विदग्धं पच्यमानमादिशेत्। यदा शोर्फ जलवस्तिसमस्पर्श पीड़ितं सन्तमुन्नतं जानीयात् तदा सुपक शोफमादिशेत्। इति रक्तावसेचनसंशोधनलङ्घनकषायसर्पिनि पिणपाचनानीति षट् शोथनानि कर्माणि। अथ पाटनार्थ शस्त्रकाह। तत्र सुकुमारादीनां पाटनमाह-उमेत्यादि। उमा क्षुमा सौधं सुधायाः पयः। दक्षस्य कुक्कु टस्य कपोतस्य पारावतस्य विट् । पलाशक्षारः। हेमक्षीरी स्वर्णक्षीरी। मुकूलको दन्ती। इत्येषामेकैकस्य पकशोथे मुखकरणयोग्यमात्रस्थाने लेपः प्रभेदनः। सुकुमाररोगान्तरकर्षितशस्त्रभीरुबालादीनां परमं शस्त्रमिदम् ॥२३॥ नागतव्रणोपक्रमे चोक्ताः कषायास्तैः सपिश्चेिति कषायसपिभिः। उपनाहैरिति सोष्णबहललेपैः। किग्वं सुरावीजम् । उमा अतसी। सौधं पयः स्नुहीक्षीरम् । हेमक्षीरी कष्टम् । मकूलको दन्ती। सुकुमारस्येति। कृच्छ्स्ये त्यत सुकुमारस्य शस्त्रं परं भेदनमिति सम्बन्धः ॥२०-२३॥
For Private and Personal Use Only