________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१३४
चरक संहिता ।
सर्व्वरोगप्रशमनं वृष्यमायुष्यमुत्तमम् । सवस्मृतिशरीराग्नि-बुद्धीन्द्रियबलप्रदम् ॥ परमूर्जस्करञ्चैव वर्णस्वर करं तथा । विषालक्ष्मीप्रशमनं सर्व्ववाचोगतप्रदम् ॥ सिद्धार्थताञ्चाभिनवं वयश्च प्रजाप्रियत्वञ्च यशश्च लोके । प्रयोज्यमिञ्छद्भिरिदं यथावद् रसायनं ब्राह्ममुदारवीर्यम् ॥ ८ ॥ इतीन्द्रोक्त रसायनम् ।
वर्जयेत्। भेषजजीर्ण भोजने च नियमोऽस्ति । सत्त्वादीनां बुद्धीन्द्रियाणां बलस्य च प्रदमित्यर्थः । सर्व्ववाचोगतस्थातीतस्य वचनशक्तिप्रदम् ईदृशं ब्राह्ममिदं रसायनं सिद्धार्थतादिकमिच्छद्भिः पुरुषैर्यथावत् यथाविधि प्रयोज्यम् । इति इन्द्रोक्तं ब्राह्मरसायनम् ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
[ रसायनपाद ४
सुश्रुते तु सोमादीनामन्यासाञ्च महौषधीनां प्रयोगोऽन्यथा प्रोक्तस्तद् यथा - " चतुविंशतिधा सोमा व्याख्याता ये पुरा मया । अतोऽन्यतमं सोममुपयुयुक्षुः सर्वोपकरणपरिचारकोपेतः प्रशरतदेशे त्रिवृत्तम् आगारं कारयिता हृतदोषः प्रतिसंसृष्टभक्तः प्रशस्तेषु तिथिकरणनक्षत्रमुहुत्तेषु अंशुमन्तमादायाध्वरकल्पेनाहुतमभिष्टुतमभिहुतञ्चान्तरागारे कृतमङ्गलः सोमकन्दं सुवर्णमुच्या विदार्य्यं पयो गृह्णीयात् सौवर्ण पात्रेऽञ्जलिमात्रं ततः सकृदेवोपयुञ्जीत नास्वादयन् । तत उपस्पृश्य शेषम स्ववसाद्य यमनियमाभ्याम् आत्मानं संयोज्य वाग्यतोऽभ्यन्तरतः सुहृद्भिरुपास्यमानो विहरेत् । रसायनं पीतवांस्तु निवाते तन्मनाः शुचिः । आसीत तिष्ठेत् क्रामेच्च न कथञ्चन संविशेत् । सायं वा भुक्तवान् श्रुतशान्तिः कुशशय्यायां कृष्णाजिनोत्तरायां सुहृद्भिरुपास्यमानः शयीत । तृषितो वाशीतोदकमात्रां पिबेत् । ततः प्रातः उत्थायोपश्रुतशान्तिः कृतमङ्गलो गां स्पृष्टा तथैवासीत । तस्य जीर्णे सोमे च्छर्दिरुत्पद्यते ततः शोणिताक्तं क्रिमिव्यामिश्रं छर्दितवतः सायं मृतशीतं क्षीरं वितरेत । ततस्तृतीयेऽह्नि क्रिमिव्यामिश्रमतिसार्यते । स तेनानिष्टप्रतिग्रहभुक्तप्रभृतिभिर्विशेषमुक्तः शुद्धतनुर्भवति । ततः सायं स्त्रातस्य पूर्व्ववदेव क्षीरं वितरेत् । क्षौमवस्त्रास्तृतायाञ्चैनं शय्यायां शाययेत् । ततश्चतुर्थेऽहनि तस्य पलाशक्षारः पलाशक्षारोदकम् । सुचौक्ष इति सुविशुद्ध | अग्निसमामिति अग्न्यनुरूपाम् । षोड़शी मात्रामिति आमलकादि चूर्ण युक्तमृतापेक्षया षोड़श भागो हेमादिचूर्णाद ग्राह्यः ॥ ८ ॥