SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः] चिकित्सितस्थानम्। तत्रामलकचूर्णानामादकं शतभावितम् । स्वरसेनैव दातव्यं क्षौद्रस्याभिनवस्य च ॥ शर्कराचूर्णपात्रञ्च प्रस्थमेकं प्रदापयेत् । तुगाक्षी-ः सपिप्पल्याः स्थाप्यं संमूर्च्छितश्च तत् ॥ सुचौक्षे मार्तिके कुम्भे मासाद्धं घृतभावित। मात्रामग्निसमां तस्य तत ऊर्द्ध प्रयोजयेत् ॥ हेमताम्रप्रबालानामयसः स्फटिकस्य च। मुक्तावैदूर्यशङ्खानां चूर्णानां रजतस्य च ॥ प्रक्षिप्य षोडशी मात्रां विहायायासमैथुनम् । जीर्णेऽजोणे च भुञ्जीत षष्टिकं क्षीरसर्पिषा ॥ रसादीनां सम्पत्तौ सत्यां बोध्यम् । तत्र मुसिद्धे तैलघृतयमके आमलक्याः स्वरसेनैव शतवारान् भावितमामलकचर्णानामाढकमष्टशरावं दातव्यम्। अभिनवस्य क्षौद्रस्य चाढ़कं षोड़शशरावं शर्कराचूणपात्रं चूर्णीभूतशर्करायाः पात्रम् अष्टशरावम्। तुगाक्षीऱ्या वंशलोचनायाः सपिप्पल्याः 'एक प्रस्थं शरावद्वयं पिप्पल्याश्च चूर्णिताया एकशरावं वंशलोचनाया एकशरावमिति यावत् तत्रैव तैलघृतयमके प्रदापयेत्। ततः सम्मूर्च्छितश्च दा सम्यगालोड्य मिश्रितं तत् तैलघृतयमकं सुचौक्षे दृढ़निर्मलशुचौ घृतभाविते स्निग्धे मार्तिके मृन्मयकुम्भे मासार्द्ध पञ्चदशदिनं व्याप्य स्थाप्यम् । तत ऊर्द्ध पक्षादूद्ध मग्निसमामग्निबलापेक्षया मात्रां तस्यौषधस्य प्रयोजयेत् । ___ ननु केन प्रकारेण प्रयोजयेदित्यत आह-विहाय इत्यादि। विहायायासमैथुनं पुमान् समर्थादिवक्ष्यमाणरूपश्चेत् तदा · कुटी प्रविश्य शुद्धतनुः सन् तस्मादेव तैलाघृतात्मकादौषधात् स्वाग्निबलानुरूपेण औषधमात्रां गृहीखा तत्र हेमादीनां नवानां शुद्धपुटितमारितानां चूर्णानां प्रत्येक तदोषधात् षोडशी षोड़शभागैकभागमात्रां तत्रौषधे प्रक्षिप्य प्रयोजयेदिति भावः । तस्मिन्नौषधे जीर्णे वाप्यजीर्णे वा षष्टिकमन्न क्षीरसर्पिषा भुञ्जीत, आयासमैथुने.. २९३ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy