________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसायनपाद४
२३३२
चरक-संहिता। खजूराणां मधूकानां मुस्तानामुत्पलस्य च । मृद्वीकानां विडङ्गानां वचायाश्चित्रकस्य च ॥ शतावाः पयस्यायाः पिप्पल्या जोङ्गकस्य च । ऋद्धया नागबलायाश्च हरिद्राया ® धवस्य च ॥ त्रिफलाकण्टकार्योश्च विदार्याश्चन्दनस्य च। इथूणां शरमूलानां श्रीपास्तिनिशस्य च ॥ रसाः पृथक् पृथग् ग्राह्याः पलाशनार एव च। एषां पलोन्मितान् भागान् पयो गव्यं चतुर्गुणम् ॥
द्वे पात्रे तिलतैलस्य द्वे च गव्यस्य सर्पिषः। . तत् साध्यं सर्वमेकत्र सुसिद्धं स्नेहमुद्धरेत् ॥ खदिरस्य सोमवल्कस्य असनस्य पीतशालस्य । खजूराणां पिण्डखज्जरफलानां मधुकानां पुष्पाणां मुस्तानां भद्रमुस्तककन्दानाम् उत्पलस्य पुष्पस्य मृद्वीकानां द्राक्षाणां विमानां विडङ्गतण्डुलानां चित्रकस्य मूलस्य पयस्यायाःक्षीरकाकोल्याः जोङ्गकस्य काकनासिकाया विदार्या क्षीरविदारिकन्दस्य ( शतमूलीनां शतमूलस्य मूलानाम् )। एषां रसाः काथाः पृथक पृथक् चतुगणजले संसाध्य प्रत्येक स्नेहसमाना ग्राह्याः । तद् यथा। बल्यादीनां द्रव्याणां प्रत्येकं द्वात्रिंशच्छरावानष्टगुणे जले पक्ता चतुर्थाशशेषश्चतुःपष्टिशरावा ग्राह्या इति। पलाशक्षारश्चैव षडू गुणजलेनकविंशतिवारान् परिस्राव्य ग्राह्यः। एपां क्षारान्तानाम् एकोनसप्तते व्याणां प्रत्येकेन पलोन्मितान् कल्कान् गव्यं पयश्चतुर्गणं तैलधृतयोर्मानात् तच्च द्रव्यद्वैगुण्यात् षट्पञ्चाशदुत्तरं शरावशतद्वयं तिलतैलस्य द्वे पात्रे द्रव्यद्वैगुण्यात् द्वात्रिंशच्छरावं गव्यस्य सपिषः संवत्सरातीतस्य द्वे च पात्र द्रव्यद्वैगुण्यात् द्वात्रिंशच्छरावमिति तैलघृतयोखिलितयोश्चतुःषष्टिशरावं स्नेहमानं साध्यं मन्दमन्दाग्निना पाच्यं सुसिद्धं शब्दोपरमे फेनोपरमे च गन्धवर्ण
चक्रपाणिः-बल्यानामित्यादौ जोङ्गकमगुरु । द्वारदा शाकतरुः कपिकच्छुर्वा । श्रीपर्णा गाम्भारी। * हरिद्राया इत्यत द्वारदाया इति क्वचित् पठ्यते ।
For Private and Personal Use Only