________________
Shri Mahavir Jain Aradhana Kendra
१म अध्यायः ]
www.kobatirth.org
चिकित्सितस्थानम् ।
वानप्रस्थैगृहस्थैश्च प्रयतैर्नियतात्मभिः
I
शक्या प्रोषधयो होताः सेवितु' विषयाभिजाः ॥ तास्तु क्षेत्रगुणैस्तेषां मध्यमेन निकर्म्मणा । मृदुवीर्य्यतस्तासां विधिज्ञेयः स एव तु ॥ ७ ॥ पय्येष्टु ं ताः प्रयोक्तुं वा ये समर्थाः सुखार्थिनः । रसायनविधिस्तेषामयमन्यः प्रशस्यते ॥ बल्यानां जीवनीयानां वृहणीयाश्च या दश । वयसः स्थापनानाञ्च खदिरस्यासनस्य च ॥
Acharya Shri Kailassagarsuri Gyanmandir
*
कृतात्मभिस्तु स सोढुमशक्यः । ननु अस्माभिरेव सोहु शक्यइचेत् तदान्येषां किं विधानमित्यत आह- वानप्रस्थैरित्यादि । विषयाभिजाः दृश्यप्रचरदेशे जाताः ता एतास्तु सुवर्चलादय ओषधयस्तेषां दृश्यलोकमचरदेशानां क्षेत्रगुणैर्मध्यमेन निकर्म्मणा निकृष्टकर्म्मणा मृदुवीर्यतरा वानप्रस्थैगृहस्थैश्च सेवितुं शक्या भवन्ति । ननु तासां सेवनविधिः कीदृगित्यत आह- तासामित्यादि । एव -yor एव विधिर्न यो विधिः ॥ ७ ॥
गङ्गाधरः- नन्वेवमस्तु ताश्चेदन्वेषणां कर्त्तुं ये त्वसमर्थाः स्युः प्रयोक्त वा ये चासमर्थाः स्युस्तेषां किं रसायनं कार्यमित्यत आह- पय्यैष्टुमित्यादि । पर्थ्योष्टुमन्वेषणां कत्तुम् । तान् रसायनविधीनाह - बल्यानामित्यादि । षड़विरेचनशताश्रितीयोक्तानां बल्यानां दशानामोषधीनां जीवनीयानाञ्च दशानां याच तत्रोक्ता दश वृहणीया ओषधयः तत्रोक्तानाश्च वयःस्थापनानां दशानां
२३३१
विषयाभिजा इति स्वोचितपुष्यदेशे जाता इत्यर्थः, अपुष्ये तु देशे दिव्यौषधिजन्मैव न भवति, भवन्त्योऽपि निर्या भवन्तीति भावः ॥ ७ ॥
चक्रपाणिः - सम्प्रति ब्रह्मसुवर्चलादीनां यथा मृदुवीय्र्यत्वं भवति, तदाह- तास्त्वित्यादि । क्षेत्रगुणैरिति हिमालयादिप्रशस्तदेशव्यतिरिक्तक्षेतधम्मैः । तेषामिति ऋषिव्यतिरिक्तानां वानप्रस्थादीनाम् । मध्यमेन च कर्म्मणेति असम्यक्प्रयोगेण, किंवा अनतिमहादृष्टेन ॥ ७ ॥
मध्यमेन कर्मणा इति पाठान्तरम् ।
For Private and Personal Use Only