________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ रसायनपाद ४
२३३०
चरक-संहिता। प्रलीयते षण्मासेन पुनः सम्भवति तस्याजं पयः प्रत्यवस्थापनम्। षण्मासेन देवतानुकारी भवति वयोवर्णस्वराकृतिबलप्रभाभिः। खयश्चास्य सर्ववाचोगतानि प्रादुर्भवन्ति दिव्यश्चास्य चक्षुः श्रोत्रं भवति योजनसहस्रगतिः दशवर्षसहस्राणि चायुरनुपद्रवञ्चेति ॥६॥
इति द्रोणीप्रावेशिकरसायनम् ।
भवन्ति चात्र । दिव्यानामोषधीनां यः प्रभावः स भवद्विधः। शक्यः सो दुमशक्यस्तु स्यात् सोढुमकूतात्मभिः ॥ ओषधीनां प्रभावेण तिष्ठतां स्वे च कर्मणि छ । भवतां निखिलं श्रेयः सर्वमेवोपपत्स्यते ॥
तत्र द्रोण्यां प्रलीयते षण्मासेन पुनः सम्भवति सर्लागावयवशाली भवति तदा तस्य प्रत्यवस्थानार्थमाज पयश्छागं दुग्धं दातुमुपाच्छादनपटल पूर्वकृतं शयानस्य मुखनुसृत्य च्छिद्रं यत् तेन च्छिद्रेण मुखे किञ्चित् किश्चिच्छागदुग्धं शनैःशनैर्दद्यात् सर्वांगावसेचनश्चाजेनैव पयसा स्तोकं स्तोकं कुर्यादित्येवं करणे सति स पुरुषः प्रत्यवतिष्ठते। ततः पष्मासेन पुनः क्रमेण वयोवर्णादिभिः देवतानुकारी भवति। अस्य च स्वयमेव सर्ववाचोगतानि सा वाचो गतानि अतीतानि वक्तुं प्रादुर्भवन्ति चक्षुश्च देवानामिव दिव्यं दर्शनं श्रोत्रश्च दिव्यं देवानामिव योजनसहस्रगतिश्च भवति ॥६॥ . गङ्गाधरः-अत्राहाधिकार्थ--भवन्तीत्यादि। दिव्यानां ब्रह्मसुवर्चलादीनां यः प्रभावः स भवद्विधैः सुकृतात्मभिः सोदु शक्यः। अकृतात्मभिः असु
तत्कालमेव तस्य वृद्धिक्षयौ भवतः, प्रलीयत इति ह तो भवति, अन्ये तु मूर्च्छतीति वर्ण यन्ति । प्रत्यवस्थापनमिति आहारसेवायां योऽयमित्यर्थः । सर्ववाचोगतानि सर्ववाक्यविशेषाः ॥६॥
चक्रपाणिः-एतद् दिव्यं रसायनमृषिभिस्तद्विधैर्वा सेव्यमिति दर्शयन्नाह-दिव्यानामित्यादि ।
* वर्मनि इति वा पाठः।
For Private and Personal Use Only