SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः] चिकित्सितस्थानम्। २३३५ श्वयथुरुत्पद्यते। ततः सङ्गेिभ्यः क्रिमयो निष्क्रामन्ति। तदहश्च शय्यायां पांशुभिरवकीयमाणः शयीत। ततः सायं पूर्वदेव क्षीरं वितरेत् । एवं पञ्चमषष्ठयोदिवसयोर्वत्तेत। केवल मुभयकालमस्तै क्षीरं वितरेत् । ततः सप्तमेऽहनि निमांसखगस्थिभूतः केवलं सोमपरिग्रहादेवोच्छ सिति। तदहश्च क्षीरेण सुखोष्णेन परिपिच्य तिलमधकचन्दनानुलिप्तदेहं पयः पाययेत् । ततोऽष्टमेऽहनि प्रातरेव क्षीरपरिषिक्तं चन्दनपदिग्धगात्रं पयः पाययिखा पांशुशय्यां समुत्सृज्य क्षौमास्तृतायां शय्यायां शाययेत्। ततो मांसमाप्याय्यते वक् चावदलति । दन्तनख लोमानि चास्य पतन्ति । तस्य नवमदिनात् प्रभृत्यनुतैलाभ्यङ्गः सोमवल्ककषायपरिषेकः। ततो दशमेऽहन्येतदेव वितरेत्। ततोऽस्य खक स्थिरतामुपैति। एवमेकादशद्वादशयोर्वतेत। तत्र त्रयोदशात् प्रभृति सोमवल्ककपायपरिषेकः। एवमा षोड़शाद वर्तेत। ततः सप्तदशाष्टादशयोर्दिवसयोर्दशना जायन्ते शिखरिणः स्निग्धवजवैदूर्यस्फटिकनिकाशाः समाः स्थिराः सहिष्णवः। तदाप्रभृति चानवैः शालितण्डुलैः क्षीरयवागूमुपसेवेत यावत् पश्चविंशतिरिति। ततोऽस्मै दद्याच्छाल्योदनं मृदूभयकालं पयसा। ततोऽस्य नरखा जायन्ते विट्टमेन्द्रगोपकतरुणादित्यप्रकाशाः स्थिराः स्निग्धा लक्षणसम्पन्नाः, केशाश्च जायन्ते खक् च नीलोत्पलातसीपुष्पवैदूर्यप्रकाशाः । ऊर्द्धश्च मासात् केशान् वापयेत्। वापयित्वा चोशीरचन्दनकृष्णतिलकल्कैः शिरः प्रदिह्यात् पयसा वा स्नापयेत्। ततोऽस्थानन्तरं सप्तरात्रात् केशा जायन्ते भ्रमराञ्जननिभाः कुश्चिताः स्निग्धाः। ततस्त्रिरात्रात् प्रथमपरिसरात् निष्क्रम्य मुहूर्त स्थिला पुनरेवान्तः प्रविशेत्। ततोऽस्य बलातैलमभ्यगार्थेऽवचाय्यम् । यवपिष्टमुद्वर्त्तनार्थे। सुखोष्णश्च पयः परिषेकार्थे। अजकर्णकषायमुत्सादनार्थे। सोशीर कूपोदकं स्नानाथें। चन्दनमनुलेपनार्थे। आमलकरसविमिश्राश्चास्य यषसूपविकल्पाः। क्षीरमधुकसिद्धश्च कृष्णतिलमवचारणार्थे। एवं दशरात्रं, ततोऽन्यद दशरात्रं द्वितीये परिसरे वर्तत। ततस्तृतीये परिसरे स्थिरीकुर्वन्नात्मानम् अन्यदशरात्रं वर्तेत। किञ्चिदातपपवनान् वा सेवेत पुनश्चान्तः प्रविशेत् । न चात्मानमादशेषु वा निरीक्षेत रूपशालिखात्। ततोऽन्यददशरात्रं क्रोधादीन् परिहरेत् । एवं सन्चैषामुपयोगः। विशेषतस्तु वल्लीपतानापादयः सोमा भक्षयितव्याः। तेषान्तु प्रमाणमर्द्धचतुर्मष्टयः । अंशुमन्तं सौवर्णे पात्रेऽभिषुणुयात् । चन्द्रमसं राजते चोपयुज्याष्टगुणमैश्वर्यमवाप्येशानं देवमनुप्रविशति । शेषांस्तु ताम्रमये मृन्मये वा रोहिते वा चर्मणि वितते शुद्रवज्ज त्रिभिर्वर्णैः सोमा For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy