________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्यायः]
३२७३
चिकित्सितस्थानम् । स्तब्धः खरोऽग्निसंस्पर्शो * मन्दस्रावो महारुजः। तुद्यते स्फुरति श्यावो व्रणो मारुतसम्भवः॥ सम्पूरणैः स्नेहपानैः स्निग्धैः स्वेदोपनाहनैः। प्रदेहपरिषकैश्श्च वातव्रणमुपाचरेत् ॥ ४॥ तृष्णामोहज्वरक्लेद-दाहदुष्टावदारणैः। वणं पित्तकृतं विद्यात् गन्धैः स्रावैश्च पूतिकैः ॥ शोतलैमधुरैः स्निग्धः प्रदेहपरिषेचनैः। सापानविरेकैश्च पैत्तिकं शमयेद् व्रणम् ॥ ५॥ बहुपिच्छो गुरुः स्निग्धः स्तिमितो मन्दवेदनः। पाण्डुवर्णोऽल्पसंक्लेदश्चिरकारी कफनणः ॥ कषायकटुरूक्षोष्णः प्रदेहः परिषेचनैः। कफनणं प्रशमयेत् तथा लङ्घनशोधनैः॥६॥
गङ्गाधरः-तत्र वातादिव्रणलक्षणमाह। स्तब्ध इत्यादि। अग्निसंस्पशाऽग्निरिव स्पृश्यते। तस्य चिकित्सामाह-सम्पूरणैरित्यादि। सम्पूरणानि वातहराणि द्रवद्रव्याणि॥४॥
गङ्गाधरः-पित्तव्रणलक्षणमाह। तृष्णेत्यादि। पूतिकैर्गन्धैः पूतिकैश्च स्रावैरिति। अस्य चिकित्सामाह। शीतलैरित्यादि। प्रदेहादिविशेषणानि शीतादीनि ॥५॥ ___ गङ्गाधरः-बहुपिच्छेत्यादिना कफत्रणः। चिरकारी चिरेण जायते प्रशाम्यति च। तस्य चिकित्सामाह। कषायेत्यादि। प्रदेहपरिषेचन. विशेषणानि कषायादीनि ॥६॥
चक्रपाणिः-स्तब्धः कठिनेत्यादिना वातादिवणानां लक्षणानि तथा चिकित्सासूखचाह । प्रदेहः परिषेकैश्चेत्यत स्निग्धैरित्यनुवर्तते। चिरकारीति चिरं करोतीति चिरकारी। चिकित्सासमासाभिधानञ्च सुखमहणार्थमेव ॥ ४-६॥
* स्तब्धः काठनसंस्पर्श इति चक्रसम्मतः पाठः।
For Private and Personal Use Only