________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२७२
चरक-संहिता। . द्विव्रणीयचिकित्सितम् बधबन्धप्रपतनाद दंष्ट्रादन्तनखक्षतात् । आगन्तवो व्रणास्तद्वद विषस्पर्शाग्निशस्त्रजाः॥ मन्त्रागदप्रलेपाद्यभेषजैहेतुभिश्च ते। लिङ्गैकदेशश्चोद्दिष्टा विपरीता निजैर्ऋ णाः॥ वणानां निजहेतूनामागन्तूनामशाम्यताम् । कुर्याद दोषबलावेक्षी निजानामौषधं यथा ॥ यथास्वहेतुभिर्दुष्टा वातपित्तकफा नृणाम् । वहिर्माग समाश्रित्य जनयन्ति निजान् व्रणान् ॥३॥
सभेषजं श्रूयतामिति। निज इत्यादि। शारीरदोषवातपित्तकफेभ्यो व्रणो निज उच्यते। वाह्यहेतुजो व्रण आगन्तुज उच्यते। तत्र वाह्यहेतूनाह । बधेत्यादि। यथा बधादिभ्यो व्रणा जायन्ते तद्वद विषादिजाश्च। ते व्रणा मन्त्रादिभिरुद्दिष्टास्तभ्यो विपरीता निजैर्वातादिभिहतुभिर्जाता व्रणाः। व्रणानामित्यादि। निजहेतूनामागन्तूनाश्च व्रणानामशाम्यतां दोषबलावेक्षी निजानां व्रणानामौषधं यथा कुर्यात् तदाह-यथास्वैरित्यादि। यथास्वैर्वाह्यहेतुभिर्व्यायामादिभिदुष्टा वातादयः॥३॥
आगन्तवो व्रगाः विपरीताः मन्त्रादिभिभैषजैश्च तथा हेतुभिश्च बधबन्धनादिभिस्तथा लिङ्गकदेशैश्च । स वै लिङ्गेकदेशः यथा आगन्तुः पूर्वमुदेति पश्चाद् धातादीन् कोपयति । निजे तु पूर्व वातादयः प्रकुप्यन्ति पश्चात् व्याधय उत्पद्यन्ते। आगन्तुर्व्यथापूर्वमुत्पन्नो जघन्यं वातपित्तश्लेष्मणां वैषम्यमापादयति इत्यादि, आगन्तुव्रणस्य भिन्नविषयतया विशिष्टतेह वक्तव्या। तेन तस्याः चिकित्सामपि समासादेव तावदाह-व्रणानामित्यादि। आगन्तूनां व्रणानां मन्वादि. चिकित्सया अशाम्यतां तथा निजानां वक्ष्यमाणैरौषधैः दोषबलावेक्षी सन् कुर्यादिति योजना। आगन्तूनां चेह चिकित्सया प्रशमनं निजदोषानुबन्धादेव ज्ञयम् । अतएवेह निजहेतूनामिति कृतम्। यथास्वैरित्यादिना निजव्रणहेतुसंप्राप्त्यादिकथनम्। अव यथास्वैहेतुभिरिति वचनेन वातादीनां स्वातन्त्रेषण प्रकोपं दर्शयति । अहेतुदुष्टो दोषः स्वतन्त्रो भवति। किञ्च यथास्वैहेतुभिरिति वचनेन य एव वातादिकोपहेतवस्त एवात निजव्रणकारका भवन्ति । न पुनरत व्रणानां विशिष्टो हेतुरस्ति, सामान्यवातादिहेतुस्तु विशिष्टयणलक्षणकार्योत्पत्तिः सम्प्राप्तिभेदाद भवतीति ज्ञेयम् ॥ २३ ॥
For Private and Personal Use Only