________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चविंशोऽध्यायः। अथातो द्वित्रणीयचिकित्सितं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ परावरज्ञमात्रेयं गतमानमदव्यथम् । अग्निवेशो गुरु काले पूजयन्निदमब्रवीत् ॥ भगवन् पूर्वमुद्दिष्टो द्वौ व्रणौ रोगसंग्रह। तयोर्लिङ्ग चिकित्साश्च वक्तुमर्हसि शर्म्मद ॥२॥ हुताशवेशस्य वचस्तत्श्रुत्वा गुरुरब्रवीत् । यो व्रणौ पूर्वमुदिष्टौ निजश्चागन्तुरेव च॥ श्रूयतां विधिवत् सौम्य तयोर्लिङ्गं सभेषजम् । निजः शरीरदोषोत्थ आगन्तुर्वाह्यहेतुजः॥ गङ्गाधरः-अथोद्दिष्टक्रमाद् द्वित्रणीयचिकित्सितमाह-अथात इत्यादि । पूववत् सर्व व्याख्येयमिति ॥१॥
गङ्गाधरः-परावरक्ष मित्यादि । परं यतो यत् परमुत्कृष्टं यतो यदवरमपकृष्टं तदुभयशम्। कठवल्ल्यामुक्तम्-“इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसश्चपरा बुद्धिब डेरात्मा महान् परः। महतः परमव्यक्तमव्यक्तात् पुरुषः परः। पुरुषान परं किञ्चित् सा काष्ठा सा परा गतिरिति ॥” इदं किमब्रवीत्भगवन्नित्यादि। रोगसंग्रहेऽष्टोदरीये पूर्व मुद्दिष्टौ द्वौ ब्रणाविति निर्दिष्टौ च तत्रैव । द्वौ ब्रणाविति निज आगन्तुश्चेति। तयोलिङ्गं चिकित्साश्च वक्तुमर्हसीत्यब्रवीदग्निवेशः॥२॥
गङ्गाधरः-हुताशेत्यादि । निजश्चागन्तुरेव चेति निर्दिष्टौ द्वौ व्रणौ, तयोर्लिङ्गं चक्रपाणिः-मद्यमत्तस्य सम्प्रहारादिना व्रणोत्पत्तौ व्रणचिकित्सार्थ द्विवणीय अच्यते। परो मोक्षः अवरं तजामातीति परावरज्ञम् ॥ १॥
चक्रपाणिः-लिङ्ग चिकित्सान्चेत्यत्र हेतोरपि ग्रहणम् । दोषाः शारीरा एव, तथापीह शरीरपदं स्नायुदोषादिषु नियुक्तदोषव्युदासार्थम्। निजागन्तुव्रणभेदमाह-मन्त्रेत्यादि। निजैः समम्
For Private and Personal Use Only