________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२७४
चरक-संहिता। द्विवणीयचिकित्सितम् तो द्वौ नानात्वभेदेन भिन्नाः स्युर्विंशतिव्रणाः। तेषां परीक्षा त्रिविधा प्रदुष्टा द्वादश स्मृताः॥ स्थानान्यष्टौ तथा गन्धाः परित्रावाश्चतुर्दश । षोडशोपद्रवा दोषाश्चत्वारो विंशतिस्तथा। तथा चोपक्रमाः सिद्धाः षट्त्रिंशत् समुदाहृताः। विभज्यमानान् शृणु मे सर्वानेतान् यथेरितान् ॥७॥ कृत्योऽकृत्यस्तथा दुष्टस्तथा मर्मस्थितो नवः। संवृतो दारुणोत्सन्नः सविषो विषमस्थितः ॥ ... अस्राव्युत्सङ्ग एवैषां व्रणान् विद्यात् विपर्ययात् । इति नानात्वभेदेन निरुक्ता विंशतित्रणाः ॥८॥ गङ्गाधरः-अथ द्वयोर्भेदान्तरमाह। तौ द्वावित्यादि। तौ द्वौ निजागन्तू व्रणौ नानाखभेदाद विंशतिव्रणाः स्युः। तेषां त्रिविधा परीक्षा इत्येवमादीन् विभज्यमानान् शृणु॥७॥ . गङ्गाधरः-नानाखभेदेन विंशतिं व्रणानाह। कृत्य इत्यादि। कृत्यः सुखेन क्रियासाध्यस्तद्विपरीतो दुःखेन क्रियासाध्यः। अकृत्योऽसाध्यः तद्विपरीतो याप्यः। दुष्टस्तविपरीतस्वदुष्टः। मम्मे स्थितस्त द्विपरीतस्वमर्मस्थितः। नवस्तद्विपरीतः पुराणः। संतस्तद् विपरीतस्वसंवृतः। दारुणोत्सन्नस्तद्विपरीतस्वदारुणोत्सन्नः। सविषस्तद्विपरीतो निर्विषः। विषमस्थितः तद्विपरीतः समस्थितः। अस्राव्युत्सङ्गस्तविपरीतः स्राव्युत्सङ्गः। इत्येवं कृत्यादीनामेषां दशानां विपर्ययाद दश व्रणान् विद्यादिति नानाखभेदन विंशतिव्रणा निरुक्ताः॥८॥
चक्रपाणिः-तौ द्वावित्यादि। नानात्वकारको भेदः नानात्वभेदः। प्रकषण दुष्टाः प्रदृष्टाः ॥७॥
चक्रपाणिः-कृत्योत्कृत्येत्यादिना व्रणभेदा व्याक्रियन्ते। तव कृत्यः छेदनेनोपरमणीयः। उत्कृत्यत्तु नात्र किञ्चित्करणीयमस्ति परं रोपणीय एव। किंवा कृत्यः साध्यः उत्कृत्यस्त्वसाध्यः। कृत्यादयः षट् सविपर्यया एवोक्ताः, संवृतादयस्तु सप्तोद्दिष्टाः सविपर्ययाः सन्तः चतुर्दश। उत्सन्न उद्गतमांसः किंवा व्रणाट वहिः पूयस्योत्सर्गात् विषमस्थितः। सुश्रुते तु तताभिसंवृतो अभिविवृत्तेत्यादिना यद् दृष्टव्रणलक्षणमुक्तं तदतिसंवृतादिविषयम् । इह तु संवृतत्वमासमुच्यते। तेनेह दृष्टवणेन संबृतस्य ग्रहणमुद्गावनीयम् ॥ ८॥
For Private and Personal Use Only