________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२६८
चरक संहिता |
श्लेष्मप्रसेकः कण्ठास्य - शोषः शब्दासहिष्णुता । मोहस्तन्द्रातियोगश्च ज्ञेयं ध्वंसकलचणम् ॥ हृत्कण्ठरोगः सम्मोहरछर्दिरङ्गरुजा ज्वरः । तृष्णा कासः शिरःशूलमेतद् विक्षेपलक्षणम् ॥ ६८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
[ मदात्ययचि के सितम्
;
2
गङ्गाधरः- श्लेष्मेत्यादि । शब्दानां श्रवणे सहिष्णुता न भवति । हृत्कण्ठेत्यादि । एतद्विक्षेपलक्षणमिति ध्वंसक विक्षेपयोभ देऽपि । सुश्रुते - विच्छिन्नमद्यपानस्य सहसातिमद्यपाने मदात्ययोक्त लिङ्गमतिदिष्टमिति । तद्यथाविच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते । तस्य पानात्ययोहिष्टा विकाराः सम्भवन्ति हि ॥ इति । मदात्ययात् पृथगेव विच्छिन्नमद्यस्यातिमद्यपानजविकार उक्तो न नाम्नाभिहितः, इह तु तन्त्रे नाम्ना द्वौ रोगावेतावुक्तौ न ततो विरोधः । ये च पुनः सुश्रुते परमदपाना जीर्णपानविभ्रमास्त्रयोऽपरे रोगा उक्ताः पानात्ययैककारणास्ते पुनरिह तन्त्रे नोक्ताः, तत्रायमभिप्रायः - सुश्रुते पानात्ययस्य वातपित्तकफसन्निपातस्य चतुर्व्वित्रस्य लक्षणान्युक्तानि तत्र वातादिलक्षणानि उक्त्वाऽतिदेशेन सन्निपातलक्षणमुक्तम् । तद्यथा - सर्व्वात्मके भवति सर्व्वविकारसम्पदिति । ल्बणहीनमध्याधिक समदोषाणां दशविधानां सन्निपातानां लक्षणं कल्पनीयमिति ख्यापितम्, तत्र नामविशेषज्ञापनार्थ परमदादयस्त्रयो विशेषणोक्ताः । तद् यथा - उष्मा शरीरगुरुता विरसाननत्वं श्लेष्माधिकलमरुचिर्मलमूत्रसङ्गः । लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञास्तृष्णा रुजा शिरसि सन्धिषु चापि भेदः ॥ इति कफवातोल्वणसन्निपातजोऽयम् । आध्मानमुद्भिरणमम्लरसो विदाहोऽजीर्णस्य पानजनितस्य वदन्ति लिङ्गम् । शेयानि तत्र भिषजा सुविनिश्चितानि पित्तप्रकोपजननानि च कारणानीति पानाजीणं च बातपित्तोल्वणसन्निपातजमाध्मानादिदर्शनात् चकाराद वातप्रकोपजननानि कारणानीति । हृद्गात्रतोदवमथुज्वर कण्ठधूम मृच्छक फस्रवणमूर्द्ध रुजो विदाहः । द्वेषः सुरान्नविकृतेषु च तेषु तेषु तं पानविभ्रममुशन्त्यखिलेन धीराः ॥ इति पित्तकफोल्वणसन्निपातज एष इति न विरोधः । नायं पानविभ्रमो रोगः स य इह पूर्ध्वमुक्तः । जायन्ते मोहनिद्रार्त्ता मद्यस्यातिनिषेवणात् । स
For Private and Personal Use Only
वक्ष्यमाणलक्षणों सुश्रुतेनाप्युक्तौ । केचित् तु 'विष्टिन्नमयः सहसा यस्तु मद्य निषेवते । तस्य पानस्यातियोगाट विकारः सम्भवेदिति' ग्रन्थेन ध्वंसकस्यावरोधं वर्णयन्ति ॥ ६७ ॥ ६८ ॥