________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२६६
२४श अध्यायः चिकित्सितस्थानम् ।
तयोः कर्म तदेवेष्टं वातिके यन्मदात्यये। तौ हि प्रक्षीणदेहस्य जायतां दुर्बलस्य वै॥ वस्तयः सर्पिषः पानं प्रयोगाः क्षीरसर्पिषोः। अभ्यङ्गोत्सादनस्नानान्यन्नपानश्च वातनुत् ॥ ध्वंसको विक्षपश्चैव कर्मणानेन शाम्यतः ॥ ६ ॥ युक्तमद्यस्य मद्योत्थो न व्याधिरुपजायते। निवृत्तः सर्वमदोभ्यो नरो यः स्याजितेन्द्रियः ।
शारीरमानसैर्धीमान् विकारैर्न स युज्यते ॥ ७० ॥ मद्यविभ्रमो नाम्ना मद इत्यभिधीयत इति मदविशेषत्वेनोक्त्या रोगखाभावात् । मुश्रुते च असाध्यतालक्षणञ्चोक्तम् । तद्यथा-हीनोत्तरोष्ठमतिशीतममन्ददाह तैलप्रभास्यमपि पानहतं विनयात् । जिह्वौष्ठदन्तमसितं खथवापि नीलं पीते च यस्य नयने रुधिरभभे वा। हिक्का ज्वरो वमथुवेपथुपाश्वेशलाः कासभ्रमावपि च पानहतं भजन्ते॥१८॥
गङ्गाधरः-ध्वंसकविक्षेपयोश्चिकित्सामाह-तयोरित्यादि । वातिकमदात्यये यदुक्तं कर्म तत्तयोध्वंसकविक्षेपयोरिष्टम्। कस्मात् ? तो हीत्यादि। कान्तरश्वाह-वस्तय इत्यादि। कर्मणानेन वातमदात्ययोक्तकर्म वस्त्यादिकर्म च यदिहोक्तमिति ॥ ६९॥ - गङ्गाधरः-युक्तेत्यादि। सम्यगयोगतो युक्तमद्यस्य नरस्य न मद्योत्थो व्याधिर्जायते। तर्हि किं युक्त्या सर्व एव मद्य पिबेदित्यत आह-निवृत्त इत्यादि। सर्वमदेवभ्यो युक्तायुक्तसर्चमदेवभ्यो यो निवर्तते जितेन्द्रियः सन् स शारीरमानसर्मद्यविकारैनै युज्यते इति मद्यनिवृत्ती महाफलं युक्तपाने दोषो नास्ति । एतदभिप्रायेण मनुना चोक्तम्-न मांसभक्षणे दोषो न मदेा न च मैथुने। प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफलेति ॥ ७॥
चक्रपाणिः-एतयोश्चिकित्सामाह-तयोरित्यादि। कर्म इति चिकित्सा। तो हीत्यादिना दुर्बलतया वातप्रधानतां दर्शयति। युक्तमद्यस्येति यथोक्तविधिना मद्यमाचरतः। सर्वथामद्यपरित्यागफलमाह-निवृत्त इत्यादि। जितेन्द्रिय इति विशेषणं मद्यनिवृत्तावेव प्रयोजनीयम् । शारीरमानसैधिकारैरिति मद्यव्यापत्तिजन्यैरेव शारीरमानविकारैः। न युज्यत इति शारीरमानसविकारमधनिवृत्त्या न युक्तो भवति ॥ ६९ । ७० ॥
४१०
For Private and Personal Use Only