________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४श अध्यायः] चिकित्सितस्थानम् ।
३२६७ आभिः क्रियाभिः सिद्धाभिः शमं याति मदात्ययः। . न चेन्मद्यक्रम मुक्तवा क्षीरमस्य प्रयोजयेत् ॥ ६५ ॥ लङ्घनैः पाचनर्दोष-शोधनैः शमनैरपि । विमदास्य कफे क्षीणे जाते दौर्बल्यलाघवे ॥ तस्य मदाविदग्धस्य वातपित्ताधिकस्य च । ग्रीष्मोपतप्तस्य तरोर्यथा वर्ष तथा पयः ॥ पयसा विहते रोगे बले जाते निवर्तयेत् ।। क्षीरप्रयोगं मदाश्च क्रमेणाल्पाल्पमाचरेत् ॥६६॥ विच्छिन्नमदाः सहसा योऽतिमदा निषेवते । ध्वंसो विपकश्चैव रोगस्तस्योपजायते ॥ व्याध्युपक्षीणदेहस्य दुश्चिकित्स्यतमौ हि तो।।
तयोर्लिङ्ग चिकित्सा च यथावदुपदेक्ष्यते ॥ ६७॥ कुर्यात्, तस्माद हषजननी क्रिया एष्टव्या भवति । आभिरित्यादि। आभि. मद्ययोगयुक्ताभिः क्रियाभिश्चेन्न मदात्ययः शमं याति, तदा मद्यक्रममस्य मुक्त्वा क्षीरं प्रयोजयेत् ॥६५॥
गङ्गाधरः-कथं पयोऽत्र युज्यते तदाह-लङ्घनै रित्यादि। विमद्यस्य मद्यात् विगतस्य मदात्यये लङ्घनादिभिः कफक्षये दोब्बल्यलाघवे जाते मद्यविदग्धस्य वातपित्ताधिकस्य पयस्तथा स्यात् यथा ग्रीष्मोपतप्तस्य तरोवर्ष जलष्टिः स्यादिति । पयसेत्यादि। मदात्यये रोगे पयसा विहते सति बले च जाते क्षीरप्रयोगं निवर्तयेत् । क्रमेणाल्पाल्पं मद्यश्चाचरेत् ॥६६॥ __गङ्गाधरः-किमर्थ क्रमेणाल्पाल्पमाचरेदित्यत आह-विच्छिन्नेत्यादि।क्षीरप्रयोगे क्रियमाणे मद्य विच्छिद्यते। ततो विच्छिन्नमद्यः सन् योऽतिमद्य सहसा निषेवते ध्वंसको विक्षेपकश्चैव नाम रोगस्तस्योपजायते। व्याध्युपेत्यादि। तयोर्ध्वंसकविक्षेपयोरिति ॥ ६७॥ क्षीरप्रयोगस्य विषयमाह-लङ्घनैरित्यादि। तत्र कार्यक्षीरवृत्तिक्रमं पुनर्मद्याभ्यासक्रमञ्चाहपयसाभिहत इत्यादि। क्रमेति कालक्रमेण। अल्पाल्पमिति स्तोकं स्तोकम् ॥ ६५। ६६ ॥
चक्रपाणिः-एतद्विपर्ययेण मद्यसेवायां दोषमाह-विच्छिन्नेत्यादि। ध्वंसकविटक्षयौ • ध्वंसको विक्षयश्चैवेति चक्रसम्मतः पाठः ।
For Private and Personal Use Only