________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२६६
चरक-संहिता ।
[ मदात्यय चिकित्सितम्
यदिदं कर्म निद्दिष्टं पृथग् दोषोल्वणं प्रति । सन्निपाते दशविधे तदुविकल्प्य भिषग्विदा ॥ यश्च दोषविकल्पज्ञो यश्वौषधविकल्पवित् । स साध्यान् साधयेद् व्याधीन् साध्यासाध्यविभागवित् ॥ ६३ वनानि रमणीयानि पद्मिन्यः सलिलाशयाः । विशदान्यन्नपानानि सहायाश्च प्रहर्षणाः ॥ माल्यानि गन्धयोगाश्च वासांसि विविधानि च । गन्धर्व्वशब्दाः कान्ताश्च गोष्ठाश्च हृदयप्रियाः ॥ सङ्कथा हास्य गीतानां विशदाश्चैव योजनाः । प्रियाश्चानुमता नाय नाशयन्ति मदात्ययम् ॥ ६४ ॥ नाक्षोभ्य हि मनो मद्यं शरीरमविहत्य च । कुर्य्यान्मदात्ययं तस्मादेष्टव्या हर्षिणी क्रिया ॥
गङ्गाधरः- यदिदमित्यादि । दशविधे सन्निपाते एकैकोल्वणसन्निपाते यदिदं कम्मे निर्दिष्टं तदेव प्रवणत्रय- हीनमध्याधिक दोषजषट्क- समत्रिदोषजैका इति दश ये सन्निपातास्तत्र भिषजा विकल्प्यम् । यश्चेत्यादि । स्पष्टम् ॥ ६३ ॥
गङ्गाधरः- वनानीत्यादि । रमणीयवनादीनि मदात्ययं सव्र्व्वं नाशयन्ति । विशदान्यनाविलानि प्रषणाः सहायाः वयस्याः । गन्धब्बशब्दाः सङ्गीतशब्दाः कान्ताः मनोशाः गोष्ठीजना हृदयप्रियाः । संकथादीनां योजनाः । स्वानुमताः प्रिया नायः ॥ ६४ ॥
गङ्गाधरः- कस्मादित्यत आह-नाक्षोभ्येत्यादि । हि यस्मान्मद्यं मनोक्षोभ्य अक्षोभयित्वा “छन्दसि बहुलमिति ल्यप्, शरीरश्चाविहत्य न मदात्ययं
चक्रपाणिः - यदिदमित्यादिना सान्निपातिकमदात्यय चिकित्सामाह । यद्यपि त्रयोदशविधः संनिपातो वृद्धदोषाणां युक्तस्तथापि सर्वमदात्ययानां विदोषजत्वात् यदेतद् वातादिमदात्ययचिकित्सितमुक्तं तदेकदोषोल्बण सन्निपात जमदात्यय चिकित्सितं भवति । तेन हीनमध्याधिकभेदसन्निपातैः यद्दशावशिष्टाः सन्निपातास्तान् अभिप्रेत्यैवमुक्तम् । सन्निपाते दशविधे तदविकल्प्य मिि हीनमध्याधिक दोषत्रयोज्ञ तमदात्ययेषु हीनमध्याधिकदोषभेदेन विकल्प्य चिकित्सा कर्त्तव्या ॥ ६३ ॥
चक्रपाणिः मदात्ययस्य प्रहर्षिणीं चिकित्सामाह - वनानीत्यादि ॥ ६४ ॥ चक्रपाणिः - यस्मात् पुनर्मदात्यये प्रहर्षिणी चिकित्सा कार्य्या, तद्धेतुमाह- नाक्षोभ्य इति ।
For Private and Personal Use Only