________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४ अध्यायः ]
चिकित्सितस्थानम् ।
आम्रामलकपेशीयां रागान् कुर्य्यात् पृथक् पृथक् । धान्य सौवर्चलाजाजी - कारवोमरिवान्वितान् ॥
Acharya Shri Kailassagarsuri Gyanmandir
३२६५
गुड़ेन मधुशुक्तेन व्यक्ताम्लमधुरोकृतान् । तैरन्नं रुच्यते दिग्धं भुक्तं सम्यक् च जीर्य्यति ॥ ६१ ॥ रूक्षा लेनान्नपानेन सोष्णेन शिशिरेण वा । व्यायामलङ्घनाभ्याञ्च युक्त्या जागरणेन च ॥ कालयुक्तेन रूक्षेण स्नानेनोद्वर्त्तनेन च । प्राणवर्णकराणाञ्च प्रहर्षाणाञ्च सेवया ॥ सेवया वसनानाञ्च गुरुणा मगुरोरपि । सङ्कोचोष्णसुखाङ्गानामङ्गनानाञ्च सेवया ॥ सुखशिक्षित हस्तानां स्त्रीणां संवाहनेन च । मदात्ययः कफप्रायः शीघ्रं समुपशाम्यति ॥ ६२ ॥
आम्रेत्यादि । आम्रपेशीणामामलकपेशीणाञ्च रागान् धान्यादियुक्तान् गुडेन मधुशुक्तन वा व्यक्ताम्लान् मधुरांश्च कृतान पृथक् पृथक् रागान् कुर्य्यात् । आहारद्रव्यमन्नव्यञ्जनादीनि भोक्तुं रज्यन्ते अनेनेति रागः । आचार इति प्राकृतम् । तै रागैर्दिग्धं भक्तमन्नं रुच्यते भुक्तञ्च सम्यक् जीर्य्यति ॥ ६१ ॥
गङ्गाधरः – रूक्षेत्यादि । रूक्षादिकान्नपानादिना कफप्रायो मदात्ययः शीघ्रं समुपशाम्यति, प्राणकराणां वर्णकराणाञ्च सेवया । गुरूणां वसनानाम् । अगुरोः कृष्णागुर्व्वनुलेपनस्य । अङ्गनानां सङ्कोचोष्णमुखाङ्गानाम् । सङ्कोचेनोष्णतया सुखमङ्ग यासां तासां सेवया । हस्तपादाद्यङ्गमर्दने सुखशिक्षित हस्तौ यासां तासां स्त्रीणां संवाहनेन शरीरमर्द्दनेन समुपशाम्यतीति ।। ६२ ।।
For Private and Personal Use Only
भल्पद्राक्षा । आम्रामलकयोः पेशीति अन्तः फलगतं सम्यग् गृह्यते । सङ्कोचोष्णसुखाङ्गीनां सङ्कोचेन संश्लेषण उष्णसुखमङ्ग यासां तासाम् । केचित् तु सङ्कोचं कुसुममाहुः ॥ ६०-६२ ॥