________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२६४
चरक-संहिता। मदात्ययचिकित्सितम् सौवर्चलमजाज्यश्च वृक्षाम्लं साम्लवेतसम् । त्वगेलामरिचा शं शर्कराभागयोजितम् ॥ एतल्लवणमष्टाङ्गमग्निसन्दीपनं परम् । मदात्यये कफप्राये दद्यात् स्रोतोविशोधनम् ॥ एतदेव पुनयुक्त्या मधुराम्लैद्रवोकृतम् । गोधूमान्नयवान्नानां मांसानाञ्चातिरोचनम् ॥ ५६ ॥ पेषयेत् कटुकैर्यक्तां श्वेतां वीजविवर्जिताम् । वृद्धीकां मातुलुङ्गस्य दाडिमस्य रसेन वा ॥ सौवर्चलैलामरिचैरजाजीभृङ्गदोप्यकैः । स रागः क्षौद्रसंयुक्तः श्रेष्ठो रोचनदोपनः ॥६०॥ मृद्वीकाया विधानेन कारयेत् कारवीमपि । शुक्तं मत्स्यण्डिकोपेतं रागं रोचनदीपनम् ॥ गङ्गाधरः-सौवर्चलेत्यादि। एकैकं भागं सौवर्चलादीनां चतुर्णामेकभागापेक्षयाधीशं लगेलामरिचानां प्रत्येकं शर्करायाश्चैकभाग इत्यष्टाङ्गलवणं नाम। एतदेवेत्यादि । एतदेवाष्टाङ्गलवणं युक्त्या यथायोग्यं मधुराम्लैडिमादिभिर्मधुरैरम्लद्रवीकृतं सत्, गोधूमान्नस्य यवान्नस्य मांसानाश्चातिरोचनं भवति ॥ ५९॥ - गङ्गाधरः-पेषयेदित्यादि। श्वेतां मृद्वीको वीजवजितां कटुकैर्युक्तां यथायोग्यमरिचादियुक्तां मातुलुङ्गस्य रसेन पेषयेत्। अथवाम्लस्य दाडिमस्य रसेन वा पेषयेत्। तत्र सौवर्चलादिकचूर्णं यथायोग्यं दत्त्वा मधु च दत्त्वा मिश्रीकृतो यः स रागो नाम श्रेष्ठो रोचनदीपनः॥६०॥ , गङ्गाधरः-मृद्वीकेत्यादि। एतन्मृद्वीकारागविधानेन कारवीं क्षुद्रकृष्णजीरकं रागं कारयेत् । मत्स्यण्डिकोपेतं शुक्तं चक्रं नाम सन्धानं रागं कारयेत् ।
स्क्रपाणि:- सौवईलमित्यादौ त्वगेलामरिचादीनां प्रत्येकमेव भागाईत्वम्। शर्कराभागः पूबैंकद्रव्यभागः ॥ ५९॥
चक्रपाणिः-श्वेतामिति मृद्वीकाम्। श्वेता च द्राक्षा काश्मीरभवा ज्ञया। कारवीति
For Private and Personal Use Only