________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२५४
चरक-संहिता। मदात्ययचिकित्सितम् तीक्ष्णोष्णेनातिमात्रेण पीतेनाम्लविदाहिना। मदग्नान्नरसोतक्क दो विदग्धः क्षारतां गतः॥ अन्तर्दाहं ज्वरं तृणां प्रमोहं विभ्रमं मदम् । जनयत्याशु तच्छान्त्यै मदामेव प्रयोजयेत् ॥ क्षारो हि याति माधुय्यं शीघ्रमम्लोपसंहितः। श्रेष्ठमम्लेषु मदाश्च यैर्गुणैस्तान् प्रवक्ष्यते ॥४१॥ मदास्याम्लखभावस्य चत्वारोऽनुरसाः स्मृताः। मधुरश्च कषायश्च कटुकस्तिक्त एव च ॥ गुणाश्च दश पूर्वोक्तास्तैश्चतुर्दशभिर्गुणैः । सर्वेषां मदामम्लानामुपथ्र्युपरि वर्तते ॥ ४२ ॥ गङ्गाधरः-तीक्ष्णेत्यादि। तीक्ष्णादिना मदेशनोक्तिद्यतेऽन्नरसः स चानरसस्योत्क्लेदो विदग्धः सन् क्षारतां क्षाररसं गच्छति । क्षारतां गतस्वन्तर्दाहादिकं जनयति । तच्छान्त्यै मद्यमेव प्रयोजयेत् । कस्मात् १ क्षारो हीत्यादि। क्षारतां गतः अन्नरसः पुनरम्लेन मधन माधुर्यं गच्छति, हि यस्मात् क्षारो भावः खल्वम्लोपसंहितः शीघ्र माधुयें याति। ननु यद्यमुष्णं तीक्ष्णञ्च तेन क्षारो न कथं वर्द्धते अन्यमम्लं वा न कुतः प्रयुज्यते इत्यत आहश्रेष्ठमित्यादि। अम्लेषु मध्ये मद्य श्रेष्ठम्, यगुणैस्तु श्रेष्ठ तान् गुणान् प्रवक्ष्यते व्याख्यास्यति ॥४१॥
गङ्गाधरः-मद्यस्येत्यादि। अम्लस्वभावस्य मद्यस्यानुरसाश्चखारो लवणवर्जम्। गुणाश्च दश पूर्वोक्ता लघूष्णादयस्तत्राम्लसहितत्वेन दश गुणा इत्येते चतुर्दशगुणा मिलिता मद्ये सन्ति नान्येष्वम्लेषु, तस्मात् तैश्चतुर्दशभिर्गुणैः सर्वेषामम्लानामुपयु परि मद्य वर्तते ॥ ४२ ॥ तेन तजातीयं मद्य जातीयञ्च मद्य मदात्यये देयम् । अन्नरसोत्क्लेद इत्यत्राम्लरसक्लेदेति पठन्ति । क्षारमाधुर्याय यदाम्लमयदानं तदा किमिति अन्यदम्लं न दीयते इत्याह-क्षारो होत्यादि ॥ ३९-४॥
For Private and Personal Use Only