SearchBrowseAboutContactDonate
Page Preview
Page 1024
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४ अध्यायः ) www.kobatirth.org चिकित्सितस्थानम् । सव्व मदात्ययं विद्यात् त्रिदोषमधिकन्तु यम् । दोषं मदात्यये पश्येत् तमादौ प्रतिकारयेत् ॥ कफस्थानानुपूर्व्या वा क्रिया कार्य्या मदात्यये । पित्तमारुतपर्यन्तं प्रायेण हि मदात्ययः ॥ ३८ ॥ मिथ्यातिहीन पीतेन यो व्याधिरुपजायते । सम्यक्पीतेन तेनैव स मये नोपशाम्यति ॥ ३६ ॥ जीर्णाय मद्यदोषाय मद्यमेव प्रदापयेत् । प्रकाङ्क्षालाघवे जाते मदामस्मै हितं भवेत् ॥ सौवर्चलानुसंविद्धं शीतं सविसैन्धवम् । मातुलुङ्गा कोपेतं जलयुक्तं प्रमाणवत् ॥ ४० ॥ गङ्गाधरः- कस्मात् ? सर्व्वमित्यादि । यस्मात् सर्व्वं मदात्ययं त्रिदोष विद्यात्, तत्र मदात्ययेऽधिकन्तु यं दोषं पश्येत् तं दोषमादौ प्रतिकारयेत् । अथवा कफस्थानानुपूर्व्या पित्तमारुतपर्यन्तं मदात्यये क्रिया कार्य्या | हि यस्मात् प्रायेण मदात्ययः पित्तमारुतपर्यन्तं स्यात् ॥ ३८ ॥ गङ्गाधरः - मिथ्येत्यादि । यो मदात्ययो व्याधिर्मिध्यातिहीन योगेन पीतेन मधे नोपजायते स मदात्ययः सम्यकपीतेन तेनैव मद्येन प्रशाम्यति ।। ३९ ।। गङ्गाधरः - जीर्णेत्यादि । जीर्णान्ने न खजीर्णान्ने । किं शुद्धं मद्यमस्मै हितं स्यादित्यत आह-सौवर्चलेत्यादि । सौवर्चलादियुक्तं मद्यमस्मै हितमिति ॥ ४० ॥ कफस्थानेत्यादि । कफस्थानानुपूर्व्या चाल कफस्थानोज्ञ ततया प्रथमकफसम्बन्धात् सन्निपातज्वर इव ज्ञेयः । आदौ कफप्रबलतामेवाह । पित्तमारुतपर्य्यन्त इत्यनेन कफादित्वं लम्भयति ॥ ३७७३८ ॥ चक्रपाणिः- समपीतेन तेनैवेति यज्जातीयेन मद्येन मदात्ययो जनितस्तज्जातीयेनैव शाम्यति । यथा विषं मौलं दंष्ट्रीयेण शाम्यति तथा मद्यमपि विजातीयेन मदेपन शाम्यतीत्येके, किन्तु तेनैवेत्यक्ष मद्यजातिं परामृशति । तेनावश्यं तज्जातीयमेव मद्यं ज्ञेयम् । यतोऽनन्तरं वक्ष्यति 'यच्च यस्मै हितं भवेत्' इति । तथा 'दद्यात् सवर्ण मद्य पैष्टिकं वातशान्तये' इत्यनेन येन वा दात्यये पष्टिकयुक्तं तथा सशर्करचेत्यादि विशेषविधानं बहु करिष्यति । चिन्मदेन • समपीतेनेति चक्रसम्मतः पाठः । ४०८ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ३२५३
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy